व्याहृतिः

ओं भूः (पादयोः)
ओं भुवः॑ (जङ्घयोः)
ओं सुवः॑ (जान्वोः)
ओं महः॑ (उदरे)
ओं जनः॑ (कण्ठे-हृदये)
ओं तपः॑ (मुखे)
ओँ स॒त्यम् (मस्तके)

विश्वास-टिप्पनी

व्याहृतिषु काचित् कल्पना -

  • भूः - भूतलम् (अग्नि-मण्डलम्)
  • भुवः - वायु-मण्डलम् (atomosphere)
  • सुवः - सौर-मण्डलम्
  • महः - आकाश-गङ्गा / milky way
  • जनः - Virgo supercluster
  • तपः - ब्रह्मण्डम् (cosmic background radiation ताप उच्यताम्)।
    क्वचित् साम्नि पुरुष इति व्याहृत्य्-अन्तरम् इह श्रूयते।
  • सत्यम् - अप्राकृतो लोकः (परमं व्योम। पौराणिकः प्राकृतः सत्य-लोक इतो भिन्न एवास्तु।)

अत्रि-भृगु-कुत्स-वसिष्ठ-गौतम-काश्यपाङ्गिरस ऋषयः । गायत्र्य्-उष्णिग्-अनुष्टुब्-बृहती-पङ्क्ति-त्रिष्टुब्-जगत्यश् छन्दांसि। अग्नि-वाय्व्-अर्क–वाग्-ईश–वरुणेन्द्र-विश्वेदेवा देवताः ।

अत्र ब्रह्मा -

अत्रिर्भृगुश् च कुत्सश् च
वसिष्ठो गौतमस्तथा ।
काश्यपोऽङ्गिरसश्चैव
ऋषयस्स्युर् यथाक्रमम् ।

गायत्र्युष्णिगनुष्टुप्च
बृहती पङ्क्तिरेव च ।
त्रिष्णुप्च जगती चैव
छंदांस्य् एतानि सप्त वै ।

अग्निर्वायुस्तथार्कश्च
वागीशो वरुणस्तथा ।
इन्द्रश्च विश्वेदेवाश्च
देवतास्समुदाहृताः ।

ब्राह्मी स्वाहा वाहिनी च
तथा नित्या विलासिनी ।
प्रभावनी च लोला च
सप्तव्याहृतिशक्तयः ।

पीतं श्यामं पिशङ्गञ्च
नीलं लोहितमेव च ।
नीलं कनकवर्णं च
वर्णान्य् एतान्य् अनुक्रमात् ।