श्रद्धा-सूक्तम्

१५१ श्रद्धा-सूक्तम् ...{Loading}...

(तैत्तिरीयब्राह्मणे पादशो विभागः। ऋग्वेदे त्व् अर्धशो यथासाधारणम्।)

०१ श्रद्धयाग्निः समिध्यते ...{Loading}...

श्र॒द्धया॒ ऽग्निस् समि॑ध्यते । श्र॒द्धया॑ विन्दते ह॒विः ।
श्र॒द्धां भग॑स्य मू॒र्धनि॑ । वच॒साऽऽवे॑दयामसि ।

०२ प्रियं श्रद्धे ...{Loading}...

प्रि॒य२ꣳ श्र॑द्धे॒ दद॑तः । प्रि॒य२ꣳ श्र॑द्धे॒ दिदा॑सतः ।
प्रि॒यं भो॒जेषु॒ यज्व॑सु। इ॒दं म॑ उदि॒तङ् कृ॑धि ।

०३ यथा देवा ...{Loading}...

यथा॑ दे॒वा असु॑रेषु । श्र॒द्धाम् उ॒ग्रेषु॑ चक्रि॒रे ।
ए॒वं भो॒जेषु॒ यज्व॑सु । अ॒स्माक॑म् उदि॒तङ् कृ॑धि ।

०४ श्रद्धां देवा ...{Loading}...

श्र॒द्धां दे॒वा यज॑माना वा॒युगो॑पा॒ उपा॑सते ।
श्र॒द्धां हृ॑द॒य्य१॒॑याकू॑त्या श्र॒द्धया॑ विन्दते॒ वसु॑ ॥

  • श्र॒द्धान् दे॑वा॒ यज॑मानाः । वा॒युगो॑पा॒ उपा॑सते ।
    श्र॒द्धाꣳ हृ॑द॒य्य॑या ऽऽकू॑त्या । श्र॒द्धया॑ हूयते ह॒विः ।

०५ श्रद्धां प्रातर्हवामहे ...{Loading}...

श्र॒द्धां प्रा॒तर् ह॑वामहे । श्र॒द्धां म॒ध्यन्दि॑नं॒ परि॑ ।
श्र॒द्धाꣳ सूर्य॑स्य नि॒म्रुचि॑ । श्रद्धे॒ श्रद्धा॑पये॒ह मा॑ ।

श्र॒द्धा दे॒वानधि॑ वस्ते । श्र॒द्धा विश्व॑म् इ॒दञ् जग॑त् ।
श्र॒द्धाङ् काम॑स्य मा॒तर॑म् । ह॒विषा॑ वर्धयामसि ।
(इयम् ऋक् तैत्तिरीयब्राह्मणे ऽस्ति। )