मेधा देवी

३९ मेधा देवी ...{Loading}...

पाठभेदाः

तैत्तिरीयारण्यके महानारायणोपनिषदि 3.6.39.1।

  • सायणो ऽत्र आन्ध्रपाठमवलम्बमानः
  • भास्करो द्राविडपाठमवलम्बमानो ऽत्र । रङ्गरामानुजभाष्यम् अत्र
भास्करोक्त-विनियोगः

1मेधाकामो जुहोति जपति वा - मेधा देवीति ॥ द्वेत्रिष्टुभौ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

मे॒धा दे॒वी जु॒षमा॑णा न॒ आगा॑द्
वि॒श्वाची॑ भ॒द्रा सु॑मन॒स्यमा॑ना।
त्वया॒ जुष्टा॑ नु॒दमा॑ना दु॒रुक्ता॑न्
बृ॒हद् व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

भट्टभास्कर-टीका

ग्रन्थधारणसमर्था बुद्धिर् मेधा
सा मेधा देवी जुषमाणा प्रीयमाणा नो ऽस्मान् आगाद् एत्व् आगच्छतु । विश्वाची विश्वं वेद्यम् अञ्चन्ती व्याप्नुवन्ती भद्रा कल्याणहेतुः सुमनस्यमाना सानुग्रहमना भवन्ती । इदानीं प्रत्यक्षवदाह - हे देवि! त्वया आगतया जुष्टाः सेविता वयम् अत एव विदथे विज्ञाने प्रशस्ते सति सुवीराः शोभनपुत्रपौत्रादिकाश्च तत्सम्बन्धेन सन्तः बृहद् उच्छ्रितं सर्ववक्त्रतिशयसर्वशक्तिशोभितं वदेम वदितुं शक्ता भूयास्म । कीदृशा वयमिति चेत् तवागमनात् प्राक् दुरुक्तान् सूक्तिरहितान् दुष्टान् शब्दान् वीरांश्च दुष्टान् जुषमाणाः सेवमानाः । ताच्छीलिकश्चानश् । पूर्वं त्वद्विरहान् मूकप्रायास् तच्छीला वयम् इदानीं त्वया जुष्टा बृहद्वदेमेति ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

त्वया॒ जुष्ट॑ ऋ॒षिर् भ॑वति देवि॒
त्वया॒ ब्रह्मा॑ ग॒तश्री॑र् उ॒त त्वया॑ ।
त्वया॒ जुष्ट॑श् चि॒त्रव्ँ वि॑न्दते॒ वसु॒+++(←स्वरपरिष्कारः)+++
सा नो॑ जुषस्व॒ द्रवि॑णेन मेधे । (54)
+++(द्रवि॑णो न मेधे इति पाठान्तरम्।)+++

भट्टभास्कर-टीका

2त्वयेति ॥ देव्यन्तः प्रथमः पादः । हे देवि ! त्वया जुष्टः सेवितः जन ऋषिर् द्रष्टा भवति । मन्त्रदृग्वा भवति ।
किञ्च - त्वया जुष्टो ब्रह्मा ब्राह्मणो भवतीति यावत् । सांहितिकं दीर्घत्वम् । यद्वा - त्वया जुष्टो ब्रह्मा भवति ब्रह्मत्वं लभते । अमन्त्रविषयत्वादाद्युदात्तवं दुर्लभम् ।
उत अपि च त्वया जुष्टः गतश्रीः प्राप्त-श्रीर् भवति शुश्रुवान् ग्रामणी राजन्यो वा । तथा त्वया जुष्टश् चित्रं चायनीयं वसु धनं विन्दते लभते । हे मेधे! सा तादृशी त्वं नो ऽस्मान् द्रविणेन प्रशस्तेन धनेन अस्मभ्यं देयेन सहास्मान् जुषस्व ॥
इति याज्ञिक्युपनिषद्य् एकोनचत्वारिंशोऽनुवाकः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

मे॒धां म॒ इन्द्रो॑ ददातु
मे॒धान् दे॒वी सर॑स्वती ।
मे॒धां मे॑ अ॒श्विनौ॑ दे॒वाव्
आध॑त्तां॒ पुष्क॑रस्रजा । (55)

भट्टभास्कर-टीका

1मेधां म इत्यनुष्टुप् ॥ मे मा इन्द्रो मेधां ददातु । अश्विनौ चोभौ मे मेधाम् आधत्ताम् उत्पादयताम् । किंविशिष्टौ पुष्करस्रजौ सरोजमालाप्रालम्बौ ॥
इति याज्ञिक्युपनिषदि चत्वारिंशोऽनुवाकः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒प्स॒रासु॑ [च॒] या मे॒धा
ग॑न्ध॒र्वेषु॑ च॒ यन् मनः॑ ।
दैवी॑ मे॒धा म॑नुष्य॒जा सा मां॑
मे॒धा सु॒रभि॑र् जुषताम् । (56)
+++(दैवीं॑ मे॒धा सर॑स्वती॒ सा मां॑ मे॒धा सु॒रभि॑र्जुषताँ॒ स्वाहा॑॥ इत्य् आन्ध्रपाठे।)+++

भट्टभास्कर-टीका

1अप्सरास्व् इत्यनुष्टुप् ॥ छान्दसोऽन्त्यलोपः । अप्सरस्सु या मेधा वर्तते गन्धर्वेषु च यन्मनः मननसामर्थ्यवती या मेधा वर्तते मनुष्यजाता च या मेधा दैवी द्योतमाना तिष्ठति सा मेधा मां जुषतां सेवतां सुरभिः शोभनगन्धा शोभन ख्यातिः ॥
इति याज्ञिक्युपनिषद्य् एकचत्वारिंशोऽनुवाकः ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

आ मां॑ मे॒धा सु॒रभि॑र् वि॒श्वरू॑पा॒
हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या ।
ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒
सा मां॑ मे॒धा सु॒प्रती॑का जुषताम् । (57)
+++(उपरि जुषन्ताम् इति दुष्टम् आन्ध्रपाठे।)+++

भट्टभास्कर-टीका

1आ मामिति त्रिष्टुप् ॥ आजगम्या भृशमागच्छतु मां सुरभिर् मेधा । यङ्लुगन्ताद् लुङि वा णिलोपे ‘विभाषा’ इति निघाताभावः, अन्त्यलोपश्छान्दसः । विश्वरूपा विश्वार्थमूर्तिकुशला हिरण्यवर्णा हिरण्यगर्भवर्णा प्रकाशमानाक्षरा हितरमणीयस्वभावा वा जगत्य् अविच्छेदेन वर्तमाना जगत्यावर्तमाना । यङ्लुगन्तात् ङीप् । आगत्य च सा मेधा मां जुषतां सदा सेवतां मय्येव तिष्ठतु । ऊर्जस्वती रसवती पयसा क्षीरादिना मां पिन्वमाना सिञ्चन्ती गवादिसमृद्ध्या सुप्रतीका शोभनोपक्रमा इन्दृशी भूत्वा सदा मां जुषताम् ॥
इति याज्ञिक्युपनिषदि द्विचत्वारिंशोऽनुवाकः ॥