आयातु वरदा

२६ आयातु वरदा ...{Loading}...

विश्वास-प्रस्तुतिः ...{Loading}...

+++(आरण्यक-स्वर-विकारम् उपेक्षते विश्वासः।)+++

आया॑तु॒ वर॑दा दे॒वी॒
अ॒क्षरं॑ ब्रह्म॒संमि॑तम् ।
गा॒य॒त्री॑ञ् छन्द॑सां
मा॒तेदं ब्र॑ह्म जु॒षस्व॑ नः ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

आया॑तु॒ वर॑दा दे॒वी॒
अ॒क्षरं॑ ब्रह्म॒संमि॑तम् ।
गा॒य॒त्री॑ञ् छन्द॑सां
मा॒तेदं ब्र॑ह्म जु॒षस्व॑ नः ।

विश्वास-प्रस्तुतिः - यजुः

ओजो॑ऽसि।
सहो॑ऽसि।
बल॑मसि।
भ्राजो॑ऽसि।
दे॒वाना॒न् धाम॒ नामा॑सि॒।
विश्व॑म् असि वि॒श्वायु॒स्,
सर्व॑म् असि स॒र्वायुः॑।
अ॒भि॒भूर् [ओङ् गायत्रीम् आवा॑हयामि । (41)]

विश्वास-टिप्पनी - यजुः

श्येनरूपेणागताया आवाहने कल्पनम् -

  • प्रातः - बाला रक्ता हंसवाहना जपमालाहस्ता ब्राह्मीरूपा,
  • मधाह्ने - युवती सावित्री वृषवाहना शूलहस्ता रोद्ररूपिणी,
  • सायम् - वृद्धा सरस्वती गरुडवाहना चक्रहस्ता वैष्णवरूपा।
मूलम्

ओजो॑ऽसि।
सहो॑ऽसि।
बल॑मसि।
भ्राजो॑ऽसि।
दे॒वाना॒न् धाम॒ नामा॑सि॒।
विश्व॑म् असि वि॒श्वायु॒स्,
सर्व॑म् असि स॒र्वायुः॑।
अ॒भि॒भूर् [ओङ् गायत्रीम् आवा॑हया॒मि । (41)]