प्र काव्यं

प्र काव्यं ...{Loading}...

ऋक्

ऋग्वेदः ९.९७.७
ऋषिः वृषगणो वासिष्ठ
देवता पवमानः सोमः
छन्दः त्रिष्टुप्
सायणो ऽत्र

संहिता

प्र काव्य॑मु॒शने॑व ब्रुवा॒णो
दे॒वो+++(=ऋषिः [वृषगणः])+++ दे॒वानां॒ जनि॑मा+++(=जन्मानि)+++ वि वक्ति ।
महि॑व्रतः॒+++(=महाकर्मा)+++ शुचि॑बन्धुः पाव॒कः
प॒दा व॑रा॒हो+++(=सद्दिने सूतः)+++ अ॒भ्ये॑ति॒ रेभ॑न्+++(=शब्दं कुर्वन्)+++ ॥

पदपाठः

प्र । काव्य॑म् । उ॒शना॑ऽइव । ब्रु॒वा॒णः । दे॒वः । दे॒वाना॑म् । जनि॑म । वि॒व॒क्ति॒ ।
महि॑ऽव्रतः । शुचि॑ऽबन्धुः । पा॒व॒कः । प॒दा । व॒रा॒हः । अ॒भि । ए॒ति॒ । रेभ॑न् ॥

साम

वाराहम् ।
हा+++([])+++उ, हाउ, हु+++([])+++प् ।
प्रा+++([])+++कावियां । ऊ+++([])+++शाने । वा+++([])+++ ब्रू, वाणाह+++(v)+++ ।
दे+++([])+++वो, देवा । ना+++([])+++अं जॆनि । मा+++([])+++ वी, वक्तिइ ।
मा+++([])+++हिव्रताः । शू+++([])+++चिबा । न्धुः+++([]दुः)+++ पा, वाकाः ।
हा+++([])+++उ, हाउ । हु+++([])+++प् ।
पा+++([])+++दा वरा । हो,+++([])+++ओ
आभि । आ,+++([])+++अअ, इ । ती,+++([])+++इराइ, भांङङा, अन् ॥