तपसां तेजसां चैव
यशसां वपुषां तथा ।
निधनं यो ऽव्ययो देवः
स ते स्कन्दः प्रसीदतु ॥
ग्रह-सेनापतिर् देवो
देव-सेना-पतिर् विभुः ।
देव-सेना-रिपु-हरः
पातु त्वां भगवान् गुहः ॥
देव-देवस्य महतः
पावकस्य च यः सुतः ।
गङ्गोमा-कृत्तिकानां च
स ते शर्म प्रयच्छतु ॥
रक्त-माल्याम्बरः श्रीमान्
रक्त-चन्दन-भूषितः ।
रक्त-दिव्य-वपुर् देवः
पातु त्वां क्रौञ्चसूदनः ॥
विस्तारः (द्रष्टुं नोद्यम्)
The kaumAra incantation that sushruta recommends that a physician should deploy while treating pediatric conditions. - MT