स्कन्दस्तवः
षडद्रिगुह्यकाननासनं भजामि षण्मुखं।
अहन्तया स्फुरद्वपुः समस्तमातृकात्मकम्॥
षडध्वशाम्भवं पदं कलाविभक्तविग्रहम्।
नमामि सैन्यनायकं समस्ततत्त्वकायकम्॥1॥
भजामि वल्लिवल्लभं पलन्यगाग्रवासिनम्।
वषड्भुवं परात्परं स्वशक्तिभिर्जगन्मयम्॥
समस्तयज्ञतर्पितोग्ररश्मिचक्रविग्रहम्।
जगद्धिताय वह्निजं कृपावतारमद्भुतम्॥2॥
सशक्तिपञ्चब्रह्ममन्त्रमात्रकायकल्पितम्।
प्रकाशबिन्दुविग्रहं विमर्शदेहमद्वयम्॥
समष्टिवह्निसूर्यसोमरश्मिचक्रभास्वरम्।
कुमारमागमोद्गमं शिवात्मजं भजाम्यहम्॥3॥
शरद्वतं जगद्भुवं सदेवसेनयार्चितम्।
समग्रदुःखभञ्जनम्समस्तरोगनाशनम्॥
षडाननं सुखावहं भवोद्भवं भयान्तकम्।
नमामि कृत्तिकासुतं षडन्वयावतारकम्॥4॥
त्रिशूलखेटचक्रधृक्ध्वजाङ्कितोऽभयाङ्कितः।
सुशक्तिवज्रसज्जितः धनुःशरैः सुशोभितः॥
विमोहकं विमोचकं विभर्ति पाशमद्भुतम्।
प्रचण्डदैत्यतारकं विदारयन् गुहं भजे ॥5॥
यः शाम्भवं पदमिदं पठति प्रदोषे।
नश्यन्ति तस्य विविधानि भयानि लोके॥
धर्मार्थकामपरमोक्षपदानि लब्ध्वा।
संपूर्णता हृदि भवेत्सुजनस्य भक्त्या॥6॥
इत्याचार्यस्थानेश्वरप्रणीतः स्कन्दस्तवः सम्पूर्णः।