स्कन्दाक्षय-कवचम्

न्यासः

अस्य स्कन्दाक्षय-कवचस्य
नारद ऋषिर्
अनुष्टुप् छन्दः
सेनानीर् देवता
वत्स-रक्षणे विनियोगः ॥

कवचम्


बाहुलेयः शिरः पायात्
स्कन्धौ शङ्कर-नन्दनः ।
मुण्डं मे पार्वती-पुत्रो
हृदयं शिखि-वाहनः ॥

कटिं पायाच् छक्तिहस्तो
जङ्घे मे तारकान्तकः ।
गुहो मे रक्षतां पादौ
सेनानीर् वत्सम् उत्तमम् ॥

स्कन्दो मे रक्षताम् अङ्गं
दशदिग् अग्निभूर् मम ।
षाण्मातुरो भये घोरे
कुमारो ऽव्याच् छ्मशानके ॥

फलम्

इति ते कथितं भद्रे
कवचम् परमाद्भुतम् ।
धृत्वा पुत्रम् अवाप्नोति
सुभव्यं चिरजीविनम् ॥

नारदस्य वचः श्रुत्वा
कवचं विधृतं तया ।
कवचस्य प्रसादेन
जीव-वत्सा भवेत् सती ॥

कवचस्य प्रसादेन
तस्याः पुत्रो जनार्दनः ।
धारिकायास् तथा पुत्रो
निर्जरैर् +++(देवैर्)+++ अपि दुर्जयः ॥

इति उमायामले कार्तिकेयाक्षय-कवचं समाप्तम् ॥