लघु-कुमार-स्तोत्रस्य शतक्रतुर् ऋषिः । अनुष्टुप् छन्दः । स्कन्दो देवता ॥
ॐ ह्रां ङम्।
देव-देवं नमस्यामि
कुमारं वरम् अच्युतम् ।
कार्त्तिकेयं दुराराध्यं
वह्नि-तेजः-समुद्भवं ॥ १ ॥
उमा-शङ्करजं भीमं
गङ्गाया जठरे धृतम् ।
शक्ति-हस्तं विशालाक्षं
षण्मुखं दीप्त-तेजसम् ॥ २ ॥
भक्तानुकम्पिनं दान्तं
ब्रह्मण्यं वरदं प्रभुम् ।
काक-पक्ष-धरं शान्तं
शिखण्डक-विभूषितं ॥ ३ ॥
रक्ताम्बरं महाबाहुं
मयूर-वरगामिनम्॥ ४ ॥
घण्टा-प्रियं गणाध्यक्षं
महाबल-पराक्रमम् ।
देव-सेनापतिं देवं
सर्व-लोक-हितेप्सया ॥ ५ ॥
कार्त्तिकेयं महाभागं
मयुरोपरिसंस्तिथम् ।
तप्त-काञ्चन-वर्णाभं
शक्तिहस्तं वरप्रदं ॥
द्विभुजं शत्रुहन्तारं
नानालञ्कार-भूषितम् ।
प्रसन्न-वदनं देवं
कुमारं पुत्रदायकम् ॥