कार्तिकेयं सुरश्रेष्ठं
षड्-वक्त्रं कुक्कुटाङ्कितम् ।
घण्टा-शक्तिधरं शुभ्रम्
अक्षमालाधरं तथा ।
द्विनेत्रं चातकारूढं
बालरूपं शशिप्रभम् ॥
हिमाद्रि-श्वेतं द्विभुजं भुजङ्गैर्
वृतं निविष्टं शिखिनश् च पृष्ठे ।
नगेन्द्र-कन्या-प्रिय-पुत्रम् आद्यं
हृदि स्मरे ऽभीष्टप्रदं कुमारम् ॥
ॐ वं कां कुमाराय नमः ॥