ध्यानम्
सुपुत्रदां च शुभदां
दया-रूपां जगत्-प्रसूम्।
श्वेत-चम्पक-वर्णाभां
रत्न-भूषण-भूषिताम्॥
पवित्र-रूपां परमां
देवसेनां परां भजे॥
स्तोत्रम्
नमो देव्यै महादेव्यै
सिद्ध्यै शान्त्यै नमो नमः ।
शुभायै देवसेनायै
षष्ठ्यै देव्यै नमो नमः ।
वरदायै पुत्रदायै
धनदायै नमो नमः ।
सुखदायै मोक्षदायै
षष्ठ्यै देव्यै नमो नमः ।
सृष्ट्यै षष्ठांशरूपायै
सिद्धायै च नमो नमः ।
मायायै सिद्धयोगिन्यै
षष्ठी-देव्यै नमो नमः ।
सारायै सारदायै च
परादेव्यै नमो नमः ।
बालाधिष्ठातृ-देव्यै च
षष्ठी-देव्यै नमो नमः ।
कल्याणदायै कल्याण्यै
फलदायै च कर्मणाम् ।
प्रत्यक्षायै स्वभक्तानां
षष्ठ्यै देव्यै नमो नमः ।
पूज्यायै स्कन्द-कान्तायै
सर्वेषां सर्व-कर्मसु ।
देव-रक्षण-कारिण्यै
षष्ठी-देव्यै नमो नमः ।
शुद्ध-सत्त्व-स्वरूपायै
वन्दितायै नृणां सदा ।
हिंसा-क्रोध-वर्जितायै
षष्ठी-देव्यै नमो नमः ।
धनं देहि प्रियां देहि
पुत्रं देहि सुरेश्वरि ।
मानं देहि जयं देहि
द्विषो जहि महेश्वरि ।
धर्मं देहि यशो देहि
षष्ठी-देव्यै नमो नमः ।
देहि भुमिम् प्रजां देहि
विद्यां देहि सुपूजिते ।
कल्याणं च जयं देहि
षष्ठी-देव्यै नमो नमः ॥
॥ इति प्रियव्रत-विरचितं षष्ठी-देवी-स्तोत्रं समाप्तं ॥