आदित्यहृदयम्

सङ्कल्पः

अगस्त्य ऋषिः । अनुष्टुप् छन्दः । आदित्यो देवता ।
ॐ बीजम् । रश्मिमतेर् इति शक्तिः । ॐ तत्सवितुर्-इत्यादि-गायत्री कीलकम् । निरस्ताशेषविघ्नतया सर्वत्र जयसिद्धौ च विनियोगः ।

स्तोत्रम्

ततो युद्धपरिश्रान्तं
समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्ट्वा
युद्धाय समुपस्थितम् ॥ १॥

दैवतैश् च समागम्य
द्रष्टुम् अभ्यागतो रणम् ।
उपागम्याब्रवीद् रामम्
अगस्त्यो भगवान् ऋषिः ॥ २॥

राम राम महाबाहो
शृणु गुह्यं सनातनम् ।
येन सर्वान् अरीन् वत्स
समरे विजयिष्यसि ॥ ३॥

आदित्य-हृदयं पुण्यं
सर्वशत्रु-विनाशनम् ।
जयावहं जपेन् नित्यम्
अक्षयं परमं शिवम् ॥ ४॥

सर्व-मङ्गल-माङ्गल्यं
सर्व-पाप-प्रणाशनम् ।
चिन्ता-शोक-प्रशमनं
आयुर्-वर्धनम् उत्तमम् ॥ ५॥

रश्मिमन्तं समुद्यन्तं
देवासुर-नमस्कृतम् ।
पूजयस्व विवस्वन्तं
भास्करं भुवनेश्वरम् ॥ ६॥

सर्व-देवात्मको ह्य् एष
तेजस्वी रश्मि-भावनः ।
एष देवासुर-गणाल्ँ
लोकान् पाति गभस्तिभिः ॥ ७॥

एष ब्रह्मा च विष्णुश् च
शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो
यमः सोमो ह्यपां पतिः ॥ ८॥

पितरो वसवः साध्या
ह्यश्विनौ मरुतो मनुः ।
वायुर् वह्निः प्रजा-प्राण-
ऋतुकर्ता प्रभाकरः ॥ ९॥

आदित्यः सविता सूर्यः
खगः पूषा गभस्तिमान् ।
सुवर्ण-सदृशो भानुर्
हिरण्यरेता दिवाकरः ॥ १०॥ or विश्वरेता

हरिद्-अश्वः सहस्रार्चिः
सप्तसप्तिर् मरीचिमान् ।
तिमिरोन्मथनः शम्भुस्
त्वष्टा मार्ताण्ड अंशुमान् ॥ ११॥ or मार्तण्ड

हिरण्यगर्भः शिशिरस्+++(← शश प्लुतगतौ )+++
तपनो भास्करो रविः ।
अग्नि-गर्भो ऽदितेः पुत्रः
शङ्खः शिशिर-नाशनः ॥ १२॥

व्योम-नाथस् तमोभेदी
ऋग्-यजुः-सामपारगः ।
घन-वृष्टिर् अपां मित्रो
विन्ध्य-वीथी प्लवङ्-गमः ॥ १३॥

आतपी मण्डली मृत्युः
पिङ्गलः सर्व-तापनः ।
कविर् विश्वो महातेजा
रक्तः सर्व-भवोद्भवः ॥ १४॥

नक्षत्र-ग्रह-ताराणाम्
अधिपो विश्व-भावनः ।
तेजसाम् अपि तेजस्वी
द्वादशात्मन् नमोऽस्तु ते ॥ १५॥

नमः पूर्वाय गिरये
पश्चिमायाऽद्रये नमः ।
ज्योतिर्-गणानां पतये
दिनाधि-पतये नमः ॥ १६॥

जयाय जय-भद्राय
हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो
आदित्याय नमो नमः ॥ १७॥

नम उग्राय वीराय
सारङ्गाय+++(←सृ गतौ)+++ नमो नमः ।
नमः पद्म-प्रबोधाय
मार्ताण्डाय नमो नमः ॥ १८॥ or मार्तण्डाय

ब्रह्मेशानाच्युतेशाय
सूर्यायादित्य-वर्चसे ।
भास्वते सर्व-भक्षाय
रौद्राय वपुषे नमः ॥ १९॥

तमो-घ्नाय हिम-घ्नाय
शत्रु-घ्नायाऽमितात्मने ।
कृत-घ्न–घ्नाय देवाय
ज्योतिषां पतये नमः ॥ २०॥

तप्त-चामीकराभाय
वह्नये विश्व-कर्मणे । or हरये
नमस् तमोऽभिनिघ्नाय
रुचये लोक-साक्षिणे ॥ २१॥

नाशयत्य् एष वै भूतं
तद् एव सृजति प्रभुः ।
पायत्य्+++(=शोषयति)+++ एष तपत्य् एष
वर्षत्य् एष गभस्तिभिः ॥ २२॥

एष सुप्तेषु जागर्ति
भूतेषु परिनिष्ठितः ।
एष एवाग्निहोत्रं च
फलं चैवाग्निहोत्रिणाम् ॥ २३॥

वेदाश् च क्रतवश् चैव
क्रतूनां फलम् एव च ।
यानि कृत्यानि लोकेषु
सर्व एष रविः प्रभुः ॥ २४॥

॥ फल श्रुतिः ॥

एनम् आपत्सु कृच्छ्रेषु
कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्
नावसीदति राघव ॥ २५॥

पूजयस्वैनम् एकाग्रो
देव-देवं जगत्-पतिम् ।
एतत् त्रिगुणितं जप्त्वा
युद्धेषु विजयिष्यसि ॥ २६॥

अस्मिन् क्षणे महा-बाहो
रावणं त्वं वधिष्यसि ।
एवम् उक्त्वा तदाऽगस्त्यो
जगाम च यथागतम् ॥ २७॥

एतच् छ्रुत्वा महातेजा
नष्टशोकोऽभवत्तदा ।
धारयाम् आस सुप्रीतो
राघवः प्रयतात्मवान् ॥ २८॥

आदित्यं प्रेक्ष्य जप्त्वा तु
परं हर्षम् अवाप्तवान् ।
त्रिर् आचम्य शुचिर् भूत्वा
धनुर् आदाय वीर्यवान् ॥ २९॥

रावणं प्रेक्ष्य हृष्टात्मा
युद्धाय समुपागमत् ।
सर्व-यत्नेन महता
वधे तस्य धृतोऽभवत् ॥ ३०॥

अथ रविर् अवदन् निरीक्ष्य रामं
मुदित-मनाः परमं प्रहृष्यमाणः ।
निशि-चर-पति-सङ्क्षयं विदित्वा
सुर-गण-मध्य-गतो वचस् “त्वरे"ति ॥ ३१॥

अनुबन्धः

अथ ऋष्यादिन्यासः ॥

ॐ अगस्त्यऋषये नमः शिरसि ।
अनुष्टुप्छन्दसे नमो मुखे ।
आदित्यदेवतायै नमो हृदि ।
ॐ बीजाय नमो गुह्ये ।
ॐ रश्मिमते शक्तये नमः पादयोः ।
ॐ तत्सवितुरित्यादिगायत्री-कीलकाय नमो नाभौ ।
विनियोगाय नमः सर्वाङ्गे ।
इति ऋष्यादि-न्यासः ॥

अथ करन्यासः ॥

ॐ रश्मिमते अङ्गुष्ठाभ्यां नमः ।
ॐ समुद्यते तर्जनीभ्यां नमः ।
ॐ देवासुरनमस्कृताय मध्यमाभ्यां नमः ।
ॐ विवस्वते ऽनामिकाभ्यां नमः ।
ॐ भास्कराय कनिष्ठिकाभ्यां नमः ।
ॐ भुवनेश्वराय करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ॥

अथ हृदयादिषडङ्ग न्यासः ॥

ॐ रश्मिमते हृदयाय नमः ।
ॐ समुद्यते शिरसे स्वाहा ।
ॐ देवासुरनमस्कृताय शिखायै वषट् ।
ॐ विवस्वते कवचाय हुम् ।
ॐ भास्कराय नेत्रत्रयाय वौषट् ।
ॐ भुवनेश्वराय अस्त्राय फट् ।
इति हृदयादिषडङ्ग न्यासः ॥