गायत्र्यः

ॐ अश्वध्वजाय विद्महे
पाशहस्ताय धीमहि
तन्नः सूर्यः प्रचोदयात् ॥

ॐ आदित्याय विद्महे
सहस्रकराय धीमहि
तन्नः सूर्यः प्रचोदयात् ॥

ॐ आदित्याय विद्महे
सहस्रकिरणाय धीमहि
तन्नो भानुः प्रचोदयात् ॥

ॐ आदित्याय च विद्महे
मार्तण्डाय च धीमहि
तन्नो भानुः प्रचोदयात् ॥

ॐ प्रभाकराय विद्महे
दिवाकराय धीमहि
तन्नः सूर्यः प्रचोदयात् ॥

ॐ भास्कराय विद्महे
दिवाकराय धीमहि
तन्नः सूर्यः प्रचोदयात् ॥

ॐ भास्कराय विद्महे
महातेजाय धीमहि
तन्नः सूर्यः प्रचोदयात् ॥

ॐ भास्कराय विद्महे
महद्द्युतिकराय धीमहि+++(छन्दः??)+++
तन्नः सूर्यः प्रचोदयात् ॥