शिवद्वात्रिंशोपचारपूजनम्

शिवद्वास्त्रिंशोपचारपूजन

०१ ध्यानम्

विश्वास-प्रस्तुतिः

ध्यायेन् नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृतिं वसानं
विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥

मूलम्

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृतिं वसानं
विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥

विश्वास-प्रस्तुतिः

वन्दे देव उमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नग-भूषणं मृगधरं, वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशाङ्क-वह्नि-नयनं, वन्दे मुकुन्द-प्रियं
वन्दे भक्तजनाश्रयं च वरदं, वन्दे शिवं शङ्करम् ॥

मूलम्

वन्दे देव उमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं,वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं,वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं,वन्दे शिवं शङ्करम् ॥

विश्वास-प्रस्तुतिः

सिंहासनं कनक-रत्न-मणि-प्रभास्वत्
छत्र-ध्वजालसित-चामर-तोरणाढ्यम् ।
बालार्क-कोटि-सदृशं कनकाम्बराढ्यं
श्रीविश्वनाथ तव ध्यानपरं करिष्ये

मूलम्

सिंहासनं कनकरत्नमणिप्रभास्वत्
छत्रध्वजालसितचामरतोरणाढ्यम् ।
बालार्ककोटिसदृशं कनकाम्बराढ्यं
श्रीविश्वनाथ तव ध्यानपरं करिष्ये ॥

०२ आवाहनम्

विश्वास-प्रस्तुतिः

गन्धर्व-किन्नर-महर्षि-सुरेन्द्र-वृन्दैः
संसेव्यमानम् अनिशं वृषभावरूढम् ।
आवाहयामि गिरिजा-सहितं प्रसन्नं
भक्त्या सुखागतम् अहं शिरसा नमामि

मूलम्

गन्धर्व किन्नर महर्षि सुरेन्द्रवृन्दैः
संसेव्यमान मनिशं वृषभावरूढम् ।
आवाहयामि गिरिजासहितं प्रसन्नं
भक्त्या सुखागतमहं शिरसा नमामि ॥

०३ आसनम्

विश्वास-प्रस्तुतिः

सिंहासनं कनकरत्न-मणि-प्रभास्वत्
छत्रध्वजा-लसित-चामर-तोरणाढ्यम् ।
बालार्क-कोटि-सदृशं-कनकाम्बराढ्यं
श्री-विश्वनाथ ! मनसैव मया ऽर्पितं ते ॥

मूलम्

सिंहासनं कनकरत्न मणि- प्रभास्वत्
छत्रध्वजा लसित चामर तोरणाढ्यम् ।
बालार्क कोटि सदृशं कनकाम्बराढ्यं
श्री विश्वनाथ ! मनसैव मयाऽर्पितं ते ॥

०४ पाद्यम्

विश्वास-प्रस्तुतिः

दूर्वाङ्कुराम्बुज-मनोहर-पुष्पयुक्तं
शुद्धं जलं सुरभि चूर्ण-समन्वितं च ।
सौवर्ण-पात्र-विलसत् पदयोर् विशुद्धं
पाद्यं गृहाण जगदीश मया ऽर्पितं ते ॥

मूलम्

दूर्वाङ्कुराम्बुज-मनोहर-पुष्पयुक्तं
शुद्धं जलं सुरभि चूर्ण-समन्वितं च ।
सौवर्ण-पात्र-विलसत् पदयोर्विशुद्धं
पाद्यं गृहाण जगदीश मयाऽर्पितं ते ॥

०५ अर्घ्यम्

विश्वास-प्रस्तुतिः

दुर्वायवाक्षत-सुगन्धि-हिरण्य-रत्नं
दर्भाम्बुजं त्रिपथगा-जल–पुष्प-युक्तम् ।
सौवर्ण-पात्र-रचितं फल-युक्तम् अर्घ्यं
त्वं स्वीकुरुष्व मनसा ऽर्पितम् इन्दुमौलै ॥

मूलम्

दुर्वायवाक्षत सुगन्धि हिरण्य रत्नं
दर्भाम्बुजं त्रिपथगा जल पुष्प युक्तम् ।
सौवर्ण पात्र रचितं फल युक्तमर्घ्यं
त्वं स्वीकुरुष्व मनसार्पितमिन्दुमौलै ॥

०६ आचमनीयम्

विश्वास-प्रस्तुतिः

गङ्गाजलैर् अमृत-माधुरतां सुपन्नैर्
एलालविङ्ग शुभगन्ध मनोभिरामम् ।
गौरीपते कनकपात्र घृतं मया ते
भक्त्यार्पितं सुचिरमाचमनं गृहाण

मूलम्

गङ्गाजलैरमृत माधुरतामुपन्नै-
रेलालविङ्ग शुभगन्ध मनोभिरामम् ।
गौरीपते कनकपात्र घृतं मया ते
भक्त्यार्पितं सुचिरमाचमनं गृहाण ॥

०७ स्नानम्

विश्वास-प्रस्तुतिः

दिव्यदृमेन्धन-समिध्ध-हुताशनाप्तैः
शुद्धोदकैः सविमलैश् च समुद्रजैश् च ।
गौरीपते परिगृहाण यथा सुखेन
स्नानम् मयैव विधिना विधिवत् प्रदिष्टम् ॥

मूलम्

दिव्यदृमेन्धन- समिध्ध - हुताशनाप्तैः
शुद्धोदकैः सविमलैश्च समुद्रजैश्च ।
गौरीपते परिगृहाण यथा सुखेन
स्नानम्मयैव विधिना विधिवत् प्रदिष्टम् ॥

०८ पयः स्नानम्

विश्वास-प्रस्तुतिः

दिव्योषधि-द्रवभवं नवनीत-पूर्णं
क्षीराब्धि-सम्भृत सुधाधिक-धाम-धारम् ।
स्वर्-धेनु-सम्भवमपूर्व-सुमिष्ठमेतं
स्नानाय शुद्धम् उररीकुरु देव दुग्धम् ॥

मूलम्

दिव्योषधि द्रवभवं नवनीतपूर्णं
क्षीराब्धिसम्भृत सुधाधिकधामधारम् ।
स्वर्धेनु सम्भवमपूर्व- सुमिष्ठमेतं
स्नानाय शुद्ध मुररीकुरु देवदुग्धम् ॥

०९ दधि स्नानम्

विश्वास-प्रस्तुतिः

कर्पूर-कुन्द-कुमुदेन्दु-करावदन्तं
मल्लि-प्रफुल्ल-कुसुमाकर-कान्ति कान्तम् ।
स्नानाय शुद्ध-रसराज-सुकोमलार्चिः
स्निग्धं शुभं दधि दयानिधये ऽर्पयामि

मूलम्

कर्पूर-कुन्द-कुमुदेन्दु-करावदन्तं
मल्लि प्रफुल्ल- कुसुमाकर- कान्ति कान्तम् ।
स्नानाय शुद्ध रसराज सुकोमलार्चिः
स्निग्धं शुभं दधि दयानिधयेऽर्पयामि ॥

१० घृत स्नानम्

विश्वास-प्रस्तुतिः

तेजोमयेन तपन-द्युति-पावितेन
गव्येन भव्य-विविधिना पर-मन्त्रितेन ।
वह्नौ सृतेन रचयामि रसावृतेन
भौमामृतेन च घृतेन तवाभिषेकम् ॥

मूलम्

तेजोमयेन तपन द्युतिपावितेन
गव्येन भव्य विविधिना परमन्त्रितेन ।
वह्नौ सृतेन रचयामि रसावृतेन
भौमामृते न च घृतेन तवाभिषेकम् ॥

११ मधु स्नानम्

विश्वास-प्रस्तुतिः

नानाविधौषधि-लता-रस-सम्भृतान्तं
माधुर्यम् इष्टम् अमृत-प्रतिमं गुणेन ।
माणिक्य-पात्र-सम-पूरित-भक्ति-पूर्णम्
अङ्गी कुरुष्व मधु देव महेश शम्भो ॥

मूलम्

नानाविधौषधि लता-रस-सम्भृतान्तं
माधुर्यमिष्टममृतं प्रतिमं गुणेन ।
माणिक्य पात्र सम पूरित भक्ति पूर्ण -
मङ्गी कुरुष्व मधु देव महेश शम्भो ॥

१२ शर्करा स्नानम्

विश्वास-प्रस्तुतिः

पूरणेक्षुसागर समुद्र भव याऽति निम्ना
मुक्ताफलद्रुम- सुधाधिकया महिम्ना ।
सर्वाङ्ग शोधनविधौ वरया त्रिनेत्र
सुस्नाहि सिद्ध वर शर्करया महेश ॥

मूलम्

पूरणेक्षुसागर समुद्र भव याऽति निम्ना
मुक्ताफलद्रुम- सुधाधिकया महिम्ना ।
सर्वाङ्ग शोधनविधौ वरया त्रिनेत्र
सुस्नाहि सिद्ध वर शर्करया महेश ॥

१३ गन्धोदक स्नानम्

विश्वास-प्रस्तुतिः

कङ्कोल कुण्ड्मल दलैल- लवङ्ग मिश्रं
जातिफला मध -सुगन्धि समन्वितं च ।
कर्पूर केसर सुगन्धिभिरिन्दुमौलै
स्नानाय शुद्धतरगन्धमिदं गृहाण ॥

मूलम्

कङ्कोल कुण्ड्मल दलैल- लवङ्ग मिश्रं
जातिफला मध -सुगन्धि समन्वितं च ।
कर्पूर केसर सुगन्धिभिरिन्दुमौलै
स्नानाय शुद्धतरगन्धमिदं गृहाण ॥

१४ उद्वर्तन स्नानम्

विश्वास-प्रस्तुतिः

जातिजपा कनक पङ्कज मोगराद्यै-
रन्यैश्च काल भव पुष्प समन्विते च ।
भक्त्या मया सुमनसैव सुवासितं च
गौरीपते सुरभि तैलमिदं गृहाण ॥

मूलम्

जातिजपा कनक पङ्कज मोगराद्यै-
रन्यैश्च काल भव पुष्प समन्विते च ।
भक्त्या मया सुमनसैव सुवासितं च
गौरीपते सुरभि तैलमिदं गृहाण ॥

१५ शुद्धोदक स्नानम्

विश्वास-प्रस्तुतिः

श्री जाह्नवी जलमयं सरसं सुधाव-
च्चैला लविङ्ग शुभगन्ध मनोभिरामम् ॥

मूलम्

श्री जाह्नवी जलमयं सरसं सुधाव-
च्चैला लविङ्ग शुभगन्ध मनोभिरामम् ॥

विश्वास-प्रस्तुतिः

गौरीपते कनकपात्रधृतं मया ते
स्नानं गृहाण जगदीश मयाऽर्पितं ते ॥

मूलम्

गौरीपते कनकपात्रधृतं मया ते
स्नानं गृहाण जगदीश मयाऽर्पितं ते ॥

१६ वस्त्रम्

विश्वास-प्रस्तुतिः

कौशेय-वस्त्र युगलं कनकैर्विचित्रं
बालार्क कोटि सदृशं च मनोभिरामम् ।
भक्त्या मयार्पितमिदं परिधाय शम्भो
सिंहासने त्वमुपविश्य गृहाण पूजाम् ॥

मूलम्

कौशेय-वस्त्र युगलं कनकैर्विचित्रं
बालार्क कोटि सदृशं च मनोभिरामम् ।
भक्त्या मयार्पितमिदं परिधाय शम्भो
सिंहासने त्वमुपविश्य गृहाण पूजाम् ॥

१७ यज्ञोपवीतम्

विश्वास-प्रस्तुतिः

दत्तम्मया सुमनसा वचसा करेण
यद् ब्रह्मचर्यसमयं परमं पवित्रम् ।
यद् धर्मकर्म निलयं परमायुषं च
यज्ञोपवीत मुररीकुरु विश्वनाथ ॥

मूलम्

दत्तम्मया सुमनसा वचसा करेण
यद् ब्रह्मचर्यसमयं परमं पवित्रम् ।
यद् धर्मकर्म निलयं परमायुषं च
यज्ञोपवीत मुररीकुरु विश्वनाथ ॥

१८ गन्धम्- चन्दनम्

विश्वास-प्रस्तुतिः

यद् श्रेष्ठमस्ति मलयाचल चन्दनानां
कर्पूर केसर- सुगन्धि-रसेन घृष्टम् ।
आमोद -मान मनिशं मनसा धृतं च
श्री चन्दनं त्व मुररी कुरु दीनबन्धो ॥

मूलम्

यद् श्रेष्ठमस्ति मलयाचल चन्दनानां
कर्पूर केसर- सुगन्धि-रसेन घृष्टम् ।
आमोद -मान मनिशं मनसा धृतं च
श्री चन्दनं त्व मुररी कुरु दीनबन्धो ॥

१९ अक्षतान्

विश्वास-प्रस्तुतिः

श्वेतेरखण्डित-मनोहर शालीबीजैः
सङ्क्षालितैः शुचिजलैश्च सुगन्धिमिश्रैः ।
त्वामर्चयामि भगवन् मनसा महेशं
गौरीपते मयि निधेहि कृपाकटाक्ष ॥

मूलम्

श्वेतेरखण्डित-मनोहर शालीबीजैः
सङ्क्षालितैः शुचिजलैश्च सुगन्धिमिश्रैः ।
त्वामर्चयामि भगवन् मनसा महेशं
गौरीपते मयि निधेहि कृपाकटाक्ष ॥

विश्वास-प्रस्तुतिः

-२० पुष्पम् पुन्नाग जाति बकुलाब्ज रसाल पुष्पै-
र्बिल्व प्रवालैस्तुलसी समन्वितैः ।
श्री पारिजातादि- समुद् भवैश्च
करोमि पूजां भगवन् गृहाण ॥

मूलम्

-२० पुष्पम् पुन्नाग जाति बकुलाब्ज रसाल पुष्पै-
र्बिल्व प्रवालैस्तुलसी समन्वितैः ।
श्री पारिजातादि- समुद् भवैश्च
करोमि पूजां भगवन् गृहाण ॥

२१ पुष्पमाला

विश्वास-प्रस्तुतिः

सेवन्तिका- बकुल चम्पक पाटलाब्जैः
पुन्नाग जाति-करवीर- रसाल पुष्पैः ।
बिल्व प्रवाल-तुलसीदल-मालतीभि
स्त्वां पूजयामि जगदीश्वर मे प्रसीद ॥

मूलम्

सेवन्तिका- बकुल चम्पक पाटलाब्जैः
पुन्नाग जाति-करवीर- रसाल पुष्पैः ।
बिल्व प्रवाल-तुलसीदल-मालतीभि
स्त्वां पूजयामि जगदीश्वर मे प्रसीद ॥

२२ परिमल सौभाग्य द्रव्य

विश्वास-प्रस्तुतिः

श्वेताबिरेण सहितं शुभ रक्त चूर्णं
सिन्दूरचूर्ण विपुलान्वित पीतचूर्णम् ।
कर्पूर केसर सुगन्धि सुवासितं च
सौभाग्यचूर्ण मुररीकुरु दीनबन्धो ॥

मूलम्

श्वेताबिरेण सहितं शुभ रक्त चूर्णं
सिन्दूरचूर्ण विपुलान्वित पीतचूर्णम् ।
कर्पूर केसर सुगन्धि सुवासितं च
सौभाग्यचूर्ण मुररीकुरु दीनबन्धो ॥

२३ धूपम्

विश्वास-प्रस्तुतिः

कालागरोश्च घृतमिश्रित गुग्गुलस्य
धूपो मया विरचितो भवतः पुरस्तात् ।
आघ्रायतां शुचि मनोहर गन्ध पूर्णं
तूर्णं विनाशय महेश्वर मोहजालम् ॥

मूलम्

कालागरोश्च घृतमिश्रित गुग्गुलस्य
धूपो मया विरचितो भवतः पुरस्तात् ।
आघ्रायतां शुचि मनोहर गन्ध पूर्णं
तूर्णं विनाशय महेश्वर मोहजालम् ॥

२४ दीपम्

विश्वास-प्रस्तुतिः

पूर्णे घृतेन गिरिजेश सुवर्णपात्रे
कौसुम्भ सूत्र- द्रढ वर्ति विराजमानः ॥

मूलम्

पूर्णे घृतेन गिरिजेश सुवर्णपात्रे
कौसुम्भ सूत्र- द्रढ वर्ति विराजमानः ॥

विश्वास-प्रस्तुतिः

दीपः पुरस्तव मया रचितो य एष
शीघ्रं विनाशयतु मे दुरितान्धकारम् ॥

मूलम्

दीपः पुरस्तव मया रचितो य एष
शीघ्रं विनाशयतु मे दुरितान्धकारम् ॥

२५ नैवेद्यम्

विश्वास-प्रस्तुतिः

जिह्वा सुधा-कनकपात्र विराजमानं
मन्त्रादिकं मधुर शाक-फलावलीढम् ।
पञ्चामृत प्लुतमनेकविधं रसौघं
सङ्कल्पितं त्व मुररीकुरु दीनबन्धो ॥

मूलम्

जिह्वा सुधा-कनकपात्र विराजमानं
मन्त्रादिकं मधुर शाक-फलावलीढम् ।
पञ्चामृत प्लुतमनेकविधं रसौघं
सङ्कल्पितं त्व मुररीकुरु दीनबन्धो ॥

२६- मुखशुद्ध्यर्थे फलं

विश्वास-प्रस्तुतिः

कलिङ्ग कोशातक संयुतानि
जम्बीर नारिङ्ग- समन्वितानि ।
सुनारिकेलानि च दाडिमानि
फलानि ते देव समर्पयामि ॥

मूलम्

कलिङ्ग कोशातक संयुतानि
जम्बीर नारिङ्ग- समन्वितानि ।
सुनारिकेलानि च दाडिमानि
फलानि ते देव समर्पयामि ॥

२७ मुखवासार्थे ताबूलम्

विश्वास-प्रस्तुतिः

पूगैः स चूर्ण खदीरैर्नवजाति पत्रै-
र्जातिफलादिक लविङ्ग समन्वितैश्च ।
ताम्बूल वीटकमिदं मनसा धृतं यत्
तत् स्वीकुरु प्रमथनाथ महेश शम्भो ॥

मूलम्

पूगैः स चूर्ण खदीरैर्नवजाति पत्रै-
र्जातिफलादिक लविङ्ग समन्वितैश्च ।
ताम्बूल वीटकमिदं मनसा धृतं यत्
तत् स्वीकुरु प्रमथनाथ महेश शम्भो ॥

२८ दक्षिणा

विश्वास-प्रस्तुतिः

विभावसोर्बीजमिदं हिरण्यद्रव्यं
दिव्यं प्रकाशं विधिगर्भ संस्थम् ।
गृहाण भूताधिपते महेश
मुद्रार्पणं वै मनसार्पितं ते ॥

मूलम्

विभावसोर्बीजमिदं हिरण्यद्रव्यं
दिव्यं प्रकाशं विधिगर्भ संस्थम् ।
गृहाण भूताधिपते महेश
मुद्रार्पणं वै मनसार्पितं ते ॥

२९ प्रदक्षिणाम्

विश्वास-प्रस्तुतिः

पदे पदे या परिपूजकेभ्यः
सद्योश्वमेधादि फलं ददाति ।
तां सर्व पापक्षय हेतुभूतां,
प्रदक्षिणां मे परितः करोमि ॥

मूलम्

पदे पदे या परिपूजकेभ्यः
सद्योश्वमेधादि फलं ददाति ।
तां सर्व पापक्षय हेतुभूतां,
प्रदक्षिणां मे परितः करोमि ॥

३० मन्त्र पुष्पाञ्जलिम्

विश्वास-प्रस्तुतिः

चरणकमल युग्मं पङ्कजैः पूजयित्वा
कनककमलमालां कण्ठदेशेऽर्पयित्वा ।
शिरसि विनिहितोयं मन्त्रपुष्पाञ्जलिस्ते
हृदयकमलमध्ये देव हर्षं तनोतु ॥

मूलम्

चरणकमल युग्मं पङ्कजैः पूजयित्वा
कनककमलमालां कण्ठदेशेऽर्पयित्वा ।
शिरसि विनिहितोयं मन्त्रपुष्पाञ्जलिस्ते
हृदयकमलमध्ये देव हर्षं तनोतु ॥

३१ नमस्कारः

विश्वास-प्रस्तुतिः

शान्तं पद्मासनस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रं च खड्गं परशुमभयदं दक्षिणाङ्गे वहन्तम् ।
नागं पाशं च घण्टां डमरुकसहितं चाङ्कुशं वामभागे
नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥

मूलम्

शान्तं पद्मासनस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रं च खड्गं परशुमभयदं दक्षिणाङ्गे वहन्तम् ।
नागं पाशं च घण्टां डमरुकसहितं चाङ्कुशं वामभागे
नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥

विश्वास-प्रस्तुतिः

पीठं यस्याः धरित्री जलधरकलशा लिङ्गमाकाशमूर्तिः
नक्षत्रं पुष्पमाला ग्रहगणकुसुमं नेत्रचन्द्रार्कवह्निः ।
कुक्षौ सप्तसमुद्रं भुजगिरिशिखरं सप्तपातालपादं
वेदं वक्त्रं षडङ्गं दशदिशिवसनं दिव्यलिङ्गं नमामि ॥

मूलम्

पीठं यस्याः धरित्री जलधरकलशा लिङ्गमाकाशमूर्तिः
नक्षत्रं पुष्पमाला ग्रहगणकुसुमं नेत्रचन्द्रार्कवह्निः ।
कुक्षौ सप्तसमुद्रं भुजगिरिशिखरं सप्तपातालपादं
वेदं वक्त्रं षडङ्गं दशदिशिवसनं दिव्यलिङ्गं नमामि ॥

विश्वास-प्रस्तुतिः

पाताले चान्तरिक्षे दशदिशिवदने सर्वशैले समुद्रे ।
भस्मे काष्ठे च लोष्ठे क्षिति जलपवने स्थावरे जङ्गमेवा ॥

मूलम्

पाताले चान्तरिक्षे दशदिशिवदने सर्वशैले समुद्रे ।
भस्मे काष्ठे च लोष्ठे क्षिति जलपवने स्थावरे जङ्गमेवा ॥

विश्वास-प्रस्तुतिः

बीजे सर्वौषधिनां असुरसुरपतौ पुष्पपत्रे तृणाग्रे ।
एको व्यापी शिवोऽहमिति वदति हरिर्नास्ति देवो द्वितीयः ॥

मूलम्

बीजे सर्वौषधिनां असुरसुरपतौ पुष्पपत्रे तृणाग्रे ।
एको व्यापी शिवोऽहमिति वदति हरिर्नास्ति देवो द्वितीयः ॥

विश्वास-प्रस्तुतिः

कण्ठे यस्य विराजते हि गरलं शीर्षै च मन्दाकिनी
वामाङ्के गिरिजाननं कटितटे शार्दूलचर्माम्बरम् ।
माया यस्य रुणाद्धि विश्वमखिलं तस्मै नमः शम्भवे
जम्बुवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ॥

मूलम्

कण्ठे यस्य विराजते हि गरलं शीर्षै च मन्दाकिनी
वामाङ्के गिरिजाननं कटितटे शार्दूलचर्माम्बरम् ।
माया यस्य रुणाद्धि विश्वमखिलं तस्मै नमः शम्भवे
जम्बुवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ॥

विश्वास-प्रस्तुतिः

शिवं शान्तं शुद्धं प्रकटमकलङ्कं श्रुतितनुं
महेशानं शम्भुं सकलसुरसंसेव्यचरणम् ।
गिरीशं गौरीशं भवभयहरं निष्कलमजं
महादेवं वन्दे प्रणत जनतापोपशमनम् ॥

मूलम्

शिवं शान्तं शुद्धं प्रकटमकलङ्कं श्रुतितनुं
महेशानं शम्भुं सकलसुरसंसेव्यचरणम् ।
गिरीशं गौरीशं भवभयहरं निष्कलमजं
महादेवं वन्दे प्रणत जनतापोपशमनम् ॥

विश्वास-प्रस्तुतिः

गिरीशं गणेशं गले नीलवर्णं
गजेन्द्राधिरूढं गुणातीतरूपम् ।
भवं भास्वरं भस्मना भूषिताङ्गं
भवानी कलत्रं भजे पञ्चवक्त्रम् ॥

मूलम्

गिरीशं गणेशं गले नीलवर्णं
गजेन्द्राधिरूढं गुणातीतरूपम् ।
भवं भास्वरं भस्मना भूषिताङ्गं
भवानी कलत्रं भजे पञ्चवक्त्रम् ॥

३२ क्षमायाचनम्

विश्वास-प्रस्तुतिः

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत् क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥

मूलम्

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत् क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥