शिवापराधक्षमापणस्तोत्रम्

श्रीशिवापराधक्षमापणस्तोत्रम् शिवापराधभञ्जनस्तोत्रम्।

अस्मरणम्

गर्भे ऽस्मरणम्

आदौ कर्म-प्रसङ्गात् कलयति कलुषं मातृकुक्षौ स्थितं मां
विण्मूत्रामेध्य-मध्ये क्वथयति नितरां जाठरो जातवेदाः ।
यद् यद् वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ १॥

शैशवे ऽस्मरणम्

बाल्ये दुःखातिरेको मल-लुलित-वपुः स्तन्य-पाने पिपासा
नो शक्तश् चेन्द्रियेभ्यो +++(ऽतो)+++ भव-गुण-जनिताः +++(मषकादयो)+++ जन्तवो मां तुदन्ति ।
नाना-+++(शिशु-कर्ण-जठरादि)+++रोगादि-दुःखाद् रुदन-पर-वशः शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ २॥

यौवने ऽस्मरणम्

प्रौढो ऽहं यौवन-स्थो विषय-विष-धरैः पञ्च-भिर् +++(इन्द्रिय-बाणैः)+++ मर्म-सन्धौ
दष्टो नष्टो विवेकः सुत-धन-युवति-स्वादु-सौख्ये निषण्णः ।
शैवी-चिन्ता-विहीनं मम हृदयम् अहो मान-गर्वाऽधिरूढं,
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ३॥

वार्धक्ये ऽस्मरणम्

वार्धक्ये चेन्द्रियाणां विगत-गति-मतिश् चाधि-दैवादि-तापैः +++(त्रिभिः)+++
पापै रोगैर् वियोगैर् र्व्यसन-कृश-तनोर् ज्ञप्ति-हीनं च दीनम् । मिथ्या-मोहाभिलाषैर् भ्रमति मम मनो धूर्+++(=भारभूता)+++-जटेर् ध्यान-शून्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ४॥

पूजादोषाः

स्नात्वा प्रत्यूष-काले स्नपन-विधि-विधौ नाहृतं गाङ्ग-तोयं
पूजार्थं वा कदाचिद् बहु-तर-गहनात् खण्ड-बिल्वी-दलानि ।
नानीता पद्म-माला सरसि विकसिता गन्ध-धूपैः त्वद्-अर्थं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ५॥

दुग्धैर् मध्व्-आज्य-युक्तैर् दधि-गुड-सहितैः स्नापितं नैव लिङ्गं
नो लिप्तं चन्दनाद्यैः कनक-विरचितैः, पूजितं न प्रसूनैः ।
धूपैः कर्पूर-दीपैर्, विविध-रस-युतैर् नैव भक्ष्योपहारैः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ६॥

कर्मादिषु दोषाः

नो शक्यं स्मार्त-कर्म प्रति-पद-गहन-प्रत्यवाय+++(=नित्यकर्मलोपदोष)++++आकुलाख्यं
श्रौते वार्ता कथं मे द्विज-कुल-विहिते ब्रह्म-मार्गानुसारे ।
ज्ञातो धर्मो विचारैः, श्रवण-मननयोः किं निदिध्यासितव्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ७॥

ध्यात्वा चित्ते शिवाख्यं प्रचुर-तर-धनं नैव दत्तं द्विजेभ्यो
हव्यं ते लक्ष-सङ्ख्यैर् हुत-वह-वदने नार्पितं बीज-मन्त्रैः ।
नो तप्तं गाङ्ग-तीरे व्रत-जप-नियमैः रुद्र-जाप्यैर् न वेदैः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ८॥

नग्नो निःसङ्ग-शुद्धस् त्रि-गुण-विरहितो ध्वस्त-मोहान्धकारो
नासाग्रे न्यस्त-दृष्टिर् विदित-भव-गुणो नैव दृष्टः कदाचित् ।
+++(इन्द्रिय-प्रत्याहारेण)+++ उन्मन्याऽवस्थया त्वां विगत-कलि-मलं शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ९॥

स्थित्वा स्थाने सरोजे प्रणव-मय-मरुत्-कुम्भके (कुण्डले) सूक्ष्म-मार्गे
शान्ते स्वान्ते प्रलीने प्रकटित-विभवे ज्योति-रूपेऽपराख्ये ।
लिङ्गज्ञे ब्रह्मवाक्ये सकल-तनु-गतं शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ १०॥

हृद्यं वेदान्तवेद्यं हृदयसरसिजे दीप्तमुद्यत्प्रकाशं
सत्यं शान्तस्वरूपं सकलमुनिमनःपद्मषण्डैकवेद्यम् ।
जाग्रत्स्वप्ने सुषुप्तौ त्रिगुणविरहितं शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ११॥

चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे
सर्पैर्भूषितकण्ठकर्णविवरे नेत्रोत्थवैश्वानरे । युगले
दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे
मोक्षार्थं कुरु चित्तवृत्तिमचलामन्यैस्तु किं कर्मभिः ॥ १२॥

किं वाऽनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं
किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।
ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्यतो भज मन श्रीपार्वतीवल्लभम् ॥ १३॥

पौरोहित्यं रजनिचरितं ग्रामणीत्वं नियोगो
माठापत्यं ह्यनृतवचनं साक्षिवादः परान्नम् ।
ब्रह्मद्वेषः खलजनरतिः प्राणिनां निर्दयत्वं
मा भूदेवं मम पशुपते जन्मजन्मान्तरेषु ॥ १४॥

आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं
तस्मात्त्वां शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥ १५॥ तस्मान्मां

वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥१६॥

गात्रं भस्मसितं सितं च हसितं हस्ते कपालं सितं var स्मितं च
खट्वाङ्गं च सितं सितश्च वृषभः कर्णे सिते कुण्डले ।
गङ्गा फेनसिता जटा पशुपतेश्चन्द्रः सितो मूर्धनि
सोऽयं सर्वसितो ददातु विभवं पापक्षयं सर्वदा ॥ १७॥

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत्क्ष्मस्व
शिव शिव करुणाब्धे श्रीमहादेव शम्भो ॥ १८॥