+++(कविः शशिकिरणो बादरायणो बह्वृचः कल्याणनगरस्थः।)+++
मृकण्डुपुत्रं परिरक्षितुं यः
स्वधर्मवृत्तं व्यरुधः कृतान्तम्।
+++(किन्तु)+++ स त्वं पुरारिर् लयमात्रधर्मा
विडम्बितः प्रेतवने चरिष्णुः॥
भक्तिं परीचिक्षिषया तनूजाऽऽ
मिषाशनं यत् सिरियाल-नाम्नः।
त्वयाहितं, तद् +++(युक्तं)+++ विहितस् त्वदीयः
क्रव्याद-सङ्घावृत-भूमि-सङ्गः॥
सुखेन भक्तेन गृहीतनेत्रः
कण्णप्पनाम्ना करुणाकरेण।
भूति-प्रभालङ्कृतम् ईश नेत्रं
धत्से, किम् एतत् तव भूति-तुल्यम्॥
अबोध-मुग्धं जगद्-अम्बिकाज्ञा-
विधेयम् +++(गणपतिम्)+++ आराद् अविचार्य मूर्ध्ना।
वियोज्य, +++(हन्त)+++ शर्वाननपञ्चकं स्वं
मन्दाक्ष+++(=लज्जा)+++-लेशेन विना दधासि॥
आह्वान-हीनः किल सप्ततन्तुं+++(=यज्ञाग्निं)+++
भस्मावशेषं विकृतं विधाय।
ध्रुवं धिनोषि श्रित-हव्यवाहस्
त्रिनेत्र किं त्वय्य् उपपन्नम् एतत्॥
उपालम्भतया प्रीतिर्
अवदाता+++(=शुक्ला)+++ विवर्तते।
सा मयस्+++(=तुष्टि)+++कर-सम्पृक्ता
पराम् आतनुते श्रियम्।।