विश्वं दर्पण-दृश्यमान-नगरी-तुल्यं निजान्तर्गतं
पश्यन्न् आत्मनि मायया बहिर् इवोद्भूतं यथा निद्रया ।
यः साक्षात्-कुरुते प्रबोध-समये स्वात्मानम् एवाद्वयं
तस्मै श्री-गुरु-मूर्तये नम इदं श्री-दक्षिणा-मूर्तये ॥१॥
बीजस्याऽन्तर् इवाङ्कुरो जगद् इदं प्राङ्-निर्विकल्पं पुनर्
माया-कल्पित-देशकाल-कलना-वैचित्र्य-चित्रीकृतम् ।
मायावीव विजृम्भयत्य् अपि महा-योगीव यः स्वेच्छया
तस्मै श्री-गुरु-मूर्तये नम इदं श्री-दक्षिणा-मूर्तये ॥२॥
यस्यैव स्फुरणं सद्-आत्मकम् असत्–कल्पार्थकं भासते
साक्षात्-तत्त्वमसीति वेद-वचसा यो बोधयत्य् आश्रितान् ।
यत्-साक्षात्-करणाद् भवेन् न पुनराऽऽवृत्तिर् भवाम्भो-निधौ
तस्मै श्री-गुरु-मूर्तये नम इदं श्री-दक्षिणा-मूर्तये ॥३॥
नाना-च्छिद्र-घटोदर-स्थित-महा-दीप-प्रभा-भास्वरं
ज्ञानं यस्य तु चक्षुर्-आदि-करण-द्वारा बहिः स्पन्दते ।
जानामीति तम् एव भान्तम् अनुभात्य् एतत् समस्तं जगत्
तस्मै श्री-गुरु-मूर्तये नम इदं श्री-दक्षिणा-मूर्तये ॥४॥
देहं प्राणम् अपीन्द्रियाण्य् अपि चलां बुद्धिं च शून्यं विदुः
स्त्री-बालान्ध-जडोपमास् त्वहम् इति भ्रान्ता भृशं वादिनः ।
माया-शक्ति-विलास-कल्पित-महा–व्यामोह-संहारिणे
तस्मै श्री-गुरु-मूर्तये नम इदं श्री-दक्षिणा-मूर्तये ॥५॥
राहु-ग्रस्त-दिवाकरेन्दु-सदृशो माया-समाच्छादनात्
सन्-मात्रः करणोप-संहरणतो योऽभूत् सुषुप्तः पुमान् ।
प्राग् अस्वाप्सम् इति प्रबोध-समये यः प्रत्यभिज्ञायते
तस्मै श्री-गुरु-मूर्तये नम इदं श्री-दक्षिणा-मूर्तये ॥६॥
बाल्यादिष्व् अपि जाग्रद्-आदिषु तथा सर्वास्व् अवस्थास्व् अपि
व्यावृत्तास्व् अनुवर्तमानम्, अहम् इत्य् अन्तः स्फुरन्तं सदा ।
स्वात्मानं प्रकटी-करोति भजतां यो मुद्रया भद्रया
तस्मै श्री-गुरु-मूर्तये नम इदं श्री-दक्षिणा-मूर्तये ॥७॥
विश्वं पश्यति कार्य-कारणतया स्व-स्वामि-सम्बन्धतः
शिष्याऽऽचार्यतया तथैव पितृ-पुत्राऽऽद्यात्मना भेदतः ।
स्वप्ने जाग्रति वा य एष पुरुषो माया-परिभ्रामितः
तस्मै श्री-गुरु-मूर्तये नम इदं श्री-दक्षिणा-मूर्तये ॥८॥
भूर् अम्भांस्य् अनलोऽनिलोऽम्बरम् अहर्-नाथो हिमांशुः पुमान्
इत्याभाति चराऽचराऽत्मकम् इदं यस्यैव मूर्त्य्-अष्टकम्।
नान्यत् किञ्चन विद्यते विमृशतां यस्मात्-परस्माद् विभोः
तस्मै श्री-गुरु-मूर्तये नम इदं श्री-दक्षिणा-मूर्तये ॥९॥
सर्वात्मत्वम् इति स्फुटी-कृतम् इदं यस्माद् अमुष्मिन् स्तवे
तेनास्य श्रवणात् तदर्थ-मननाद् ध्यानाच् च संकीर्तनात् ।
सर्वात्मत्व-महाविभूति-सहितं स्याद् ईश्वरत्वं स्वतः
सिद्ध्येत् तत् पुनर् अष्टधा परिणतं चैश्वर्यम् अव्याहतम् ॥१०॥