नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम्।
उद्धर्तुकामः सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम् ॥
नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च ।
मयस्कराय च नमः शिवाय च शिवतराय च ॥ १॥
नमः सायं नमः प्रातर् नमो रात्र्या नमो दिवा ।
भवाय च शर्वाय चोभाभ्याम् अकरं नमः ॥ ७॥+++(5)+++
यस्य निःश्वसितं वेदा
यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे
विद्यातीर्थ-महेश्वरम् ॥ ८॥+++(4)+++
सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु । पुरुषो वै रुद्रः सन् महो नमो नमः ।
विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् ।
सर्वो ह्येष रुद्रस् तस्मै रुद्राय नमो अस्तु ॥
नालीकाऽऽसनम्+++(=धनुः)+++ ईश्वरश् शिखरिणां +++(मेरुः)+++, तत्+++(→नालीकासन=ब्रह्म)+++-कन्धरोत्थायिनो +++(वेदाः)+++
गन्धर्वाः+++(=अश्वाः)+++ पुनर् एतद्+++(→गन्धर्व=खेचर)+++-अध्व-चरितौ +++(=सूर्यचन्द्रौ)+++ चक्रे तद्+++(→चक्र)+++-उद्धारकः ।
पत्री+++(=बाणः)+++ तत्+++(→पत्रि=पक्षि)+++-प्रभु-वैरिणां +++(सर्पाणां)+++ परिवृढो+++(=राजा)+++ जीवा+++(=ज्या)+++ च यस्याभवत्
तस्य+++(→बृहस्पतेर्)+++ +अन्ते-वसतां +++(देवानां)+++ रिपु-क्षय-विधौ देवाय तस्मै नमः ।+++(5)+++
रक्तांगी शशिशेखरा त्रिनयना स्मेरानना सुन्दरी
श्रीमच्छ्रीललिताम्बिका शरधनुर्हस्ता शिवेशी शिवा ।
यस्यैषा च विराजते भगवती भाले विशालाक्षिणी
श्रीमत्कामकलात्मकं पशुपतिं तं विश्वनाथं भजे ॥
an insider’s description of Pashupati (Dhan Shamsher’s)