नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम्।
उद्धर्तुकामः सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम् ॥
नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च ।
मयस्कराय च नमः शिवाय च शिवतराय च ॥ १॥
नमः सायं नमः प्रातर् नमो रात्र्या नमो दिवा ।
भवाय च शर्वाय चोभाभ्याम् अकरं नमः ॥ ७॥(5)
यस्य निःश्वसितं वेदा
यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे
विद्यातीर्थ-महेश्वरम् ॥ ८॥(4)
सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु । पुरुषो वै रुद्रः सन् महो नमो नमः ।
विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् ।
सर्वो ह्येष रुद्रस् तस्मै रुद्राय नमो अस्तु ॥
नालीकाऽऽसनम्(=धनुः) ईश्वरश् शिखरिणां (मेरुः), तत्(→नालीकासन=ब्रह्म)-कन्धरोत्थायिनो (वेदाः)
गन्धर्वाः(=अश्वाः) पुनर् एतद्(→गन्धर्व=खेचर)-अध्व-चरितौ (=सूर्यचन्द्रौ) चक्रे तद्(→चक्र)-उद्धारकः ।
पत्री(=बाणः) तत्(→पत्रि=पक्षि)-प्रभु-वैरिणां (सर्पाणां) परिवृढो(=राजा) जीवा(=ज्या) च यस्याभवत्
तस्य(→बृहस्पतेर्) +अन्ते-वसतां (देवानां) रिपु-क्षय-विधौ देवाय तस्मै नमः ।(5)
रक्तांगी शशिशेखरा त्रिनयना स्मेरानना सुन्दरी
श्रीमच्छ्रीललिताम्बिका शरधनुर्हस्ता शिवेशी शिवा ।
यस्यैषा च विराजते भगवती भाले विशालाक्षिणी
श्रीमत्कामकलात्मकं पशुपतिं तं विश्वनाथं भजे ॥
an insider’s description of Pashupati (Dhan Shamsher’s)