देहस्थ-देव-चक्र-पूजा

परिचयः

छन्दः - आर्या। अभिनवगुप्तकृता प्रायेण। हृदम्भोजम् परितो नाना-दलेषु देवताः कल्पनीयाः। केन्द्रय् आनन्दभैरवः।
अत्यन्तं सुन्दरस् स्तवः। यथा यथावययवस्मबन्धस् तथा तथा केन्द्रस्थाऽऽनन्दभैरवपूजा।

पाठः

असुर-सुर-वृन्द-वन्दितम्
अभिमत-वर-वितरणे निरतम् ।
दर्शन-शताग्र्य-पूज्यं
प्राण-तनुं गणपतिं वन्दे ॥

वर-वीर-योगिनी-गण-
सिद्धावलि-पूजितांघ्रि-युगलम् ।
अपहृत-विनयि-जनार्तिं
वटुकम् +++(भैरवविशेषम्)+++ अपानाभिधं वन्दे ॥

+++(कमलकेन्द्रे)+++
आत्मीय-विषय-भोगैर्
इन्द्रिय-देव्याः सदा हृद्-अम्भोजे ।
अभि-पूजयन्ति यं तं
चिन्मयम् आनन्द-भैरवं वन्दे ॥

यद्-धीबलेन विश्वं
भक्तानां शिव-पथं भाति ।
तम् अहम् अवधान-रूपं
सद्गुरुम् अमलं सदा वन्दे ॥

उदयावभास-चर्वण-लीलं
विश्वस्य या करोत्य् अनिशम् ।
आनन्द-भैरवीं तां
विमर्श-रूपाम् अहम् वन्दे ॥

+++(प्राच्याम्)+++
अर्चयति भैरवं या
निश्चय-कुसुमैः सुरेश-पत्रस्था ।
प्रणमामि बुद्धि-रूपां
ब्रह्माणीं ताम् अहम् सततम् ॥

+++(आग्नेयायाम्)+++
कुरुते भैरव-पूजाम्
अनल-दलस्थाऽभिमान-कुसुमैर् या ।
नित्यम् अहंकृति-रूपां
वन्दे तां शांभवीम् अम्बाम् ॥

+++(दक्षिणे)+++
विदधाति भैरवार्चां
दक्षिण-दलगा विकल्प-कुसुमैर् या ।
नित्यं मनः-स्वरूपां
कौमारीं ताम् अहं वन्दे ॥

+++(निरृत्याम्)+++
नैरृत-दलगा भैरवम्
अर्चयते शब्द-कुसुमैर् या ।
प्रणमामि श्रुति-रूपां
नित्यं तां वैष्णवीं शक्तिं ॥

+++(पश्चिमे)+++
पश्चिम-दिग्-दल-संस्था
हृदय-हरैः स्पर्श-कुसुमैर् या ।
तोषयति भैरवं तां
त्वग्-रूप-धरां नमामि वाराहीम्

+++(वायव्ये)+++
वरतर-रूप-विशेषैर्
मारुत-दिग्-दल-निषण्ण-देहा या ।
पूजयति भैरवं ताम्
इन्द्राणीं दृक्-तनुं वन्दे ॥

+++(उत्तरे)+++
धनपति-किसलय-निलया
या नित्यं विविध-षड्-रसाहारैः
पूजयति भैरवं तां
जिह्वाभिख्यां नमामि चामुण्डां

+++(ऐशान्याम्)+++
ईश-दलस्था भैरवम्
अर्चयते परिमलैर् विचित्रैर् या ।
प्रणमामि सर्वदा तां
घ्राणाभिख्यां महालक्ष्मीम्

षड्-दर्शनेषु पूज्यं
षट्-त्रिंशत्-तत्त्व-संवलितम् ।
आत्माभिख्यं सततं
क्षेत्र-पतिं सिद्धिदं वन्दे ॥

संस्फुरद्-अनुभव-सारं
सर्वान्तः सतत-संनिहितम् ।
नौमि सदोदितम् इत्थं
निज-देहग-देवता-चक्रम्