मौनव्याख्या प्रकटित-पर–ब्रह्म-तत्त्वं युवानं
वर्षिष्ठ+अन्ते-वसद्-ऋषि-गणैर् आवृतं ब्रह्म-निष्ठैः ।
आचार्येन्द्रं कर-कलित-चिन्-मुद्रम् आनन्द-मूर्तिं
स्वात्मारामं मुदित-वदनं दक्षिणा-मूर्तिम् ईडे ॥१॥
वट-विटपि-समीपे भूमि-भागे निषण्णं
सकल-मुनि-जनानां ज्ञान-दातारम् आरात् ।
त्रि-भुवन-गुरुम् ईशं दक्षिणा-मूर्ति-देवं
जनन-मरण-दुःख-च्छेद-दक्षं नमामि ॥२॥
चित्रं वट-तरोर् मूले
वृद्धाः शिष्या गुरुर् युवा ।
गुरोस् तु मौनं व्याख्यानं
शिष्यास् तु च्छिन्न-संशयाः ॥३॥
निधये सर्व-विद्यानां
भिषजे भव-रोगिणाम् ।
गुरवे सर्व-लोकानां
दक्षिणा-मूर्तये नमः ॥४॥
ॐ नमः प्रणवार्थाय
शुद्ध-ज्ञानैक-मूर्तये ।
निर्मलाय प्रशान्ताय
दक्षिणा-मूर्तये नमः ॥५॥
चिद्-घनाय महेशाय
वट-मूल-निवासिने ।
सच्-चिदानन्द-रूपाय
दक्षिणा-मूर्तये नमः ॥६॥
ईश्वरो गुरुर् आत्मेति
मूर्ति-भेद-विभागिने ।
व्योमवद् व्याप्त-देहाय
दक्षिणा-मूर्तये नमः ॥७॥(5)