भारावतारस्तवः ...{Loading}...
अथ राजारामज-शङ्करकृतो भारावतारस्तवः। स्वरुच्यनुगुणव्ँ विकृतेन क्रमेणात्र प्रस्तुतः।
उद्धरणयाचना
अग्रे स्तुवत्सु विबुधेषु निशम्य शम्भो।
डिम्भोचितानि वचनानि जडात्मनो मे ।
न्यग्रोधमूलवसते हसतस्तव द्राग्
अद्य श्लथीभवतु शाश्वतमौनमुद्रा ॥१॥
गर्ते पुनर्भवमये पतितेऽप्यमुष्मिन्
जन्तौ चिराय विषयामिषलोलुपत्वात् ।
अद्याप्यहो वद तदुद्धरणे तवायं
को वा पुरातनकिरातपते विलम्बः ॥२॥
यद्दक्षिणाभिमुखमीश्वर तिष्ठसि त्वं
मौनव्रताचरणचुञ्चुरजस्रमेव ।
तेन त्वयोरसि पुरा +++(मार्कण्डेयप्रकरणे)+++ निहतस्य नूनं
भीतिं बिभर्ति शमनस्य+++(=यमस्य)+++ मनोऽधुनापि ॥३॥
त्र्यक्षोऽसि पश्यसि न मां पतितं भवाब्धौ
पञ्चाननोऽसि न वचोऽपि ददासि मह्यम् ।
ईशोऽसि दासजनमेनमुपेक्षसे च
स्थाणुः प्रकाशमधुनासि निरूपितस्त्वम् ॥५॥
कल्पद्रुमोऽसि नमतामिति या स्तुतिस् ते
हेतुर्न तत्र तव दान-विभूतिरेका ।
यत् तादृशस् त्वमसि पुण्यलवोज्झितानाम्
अस्माकमप्यहह तत्तव दुर्लभत्वात् ॥११॥
स्तुतिः
दैत्यान्निहन्ति दशभिश्च विभाति रूपैः +++(=विष्णोर् अवतारैः)+++
सूते विधिं वहति पाति च विश्वमेतत् ।
देवार्धम् एकम्+++(=हरिः)+++ अपि ते वपुषो यदीदृक्
को वा ग्रहीतुमपरं कथयेश्वरः स्यात् ॥८॥
कस्मैचन प्रणमते मुदितो विभुमाव्ँ
विश्राणयेदिति शिरःशशिनोऽस्तु शङ्का ।
त्वन्मात्रभोज्य इति यो विहितो विधात्रा
धन्यः स एव पुनरीश्वर कालकूटः ॥९॥
सैवाद्रिजा वपुषि सैव च मूर्ध्नि गङ्गा
कण्ठे पुनः पशुपते स हि कालकूटः ।
किम् भूयसा कलितकाशिपुराः पुमांसस्
त्वत्तो भवन्ति कलयापि न भिन्नरूपाः ॥२२॥
+++(मोक्षे तादात्म्यम्।)+++
ज्ञानाञ्जनव्यतिकरोज्ज्वलदृष्टयस्त्वन्–
नामामृतश्रवणकल्पितकर्णपूराः ।
पञ्चाक्षरीमयमनोहरकण्ठभूषास्
त्वामाश्रयन्ति पुरुषा भव भक्तिमन्तः ॥२६॥
गाङ्गे निमज्जति जले निगमानधीते
घोरं तपश्चरति यन्नियमेन लोकः ।
तद् द्रष्टुम् अन्त्यसमये महिषं विहाय
भद्रं कुलाद्रिककुदं वृषभं पुरस्तात् ॥२८॥
श्रद्धाय न श्रुतिवचांसि न वा मुमुक्षाम्
आस्थाय न त्वयि विलोक्य महेश्वरत्वम् ।
सन्तस्तु शश्वदनपेक्षितहेतवस्त्वाम्
आत्मानमस्य जगतो भव कामयन्ते ॥३२॥
सत्यं ब्रवीमि सुचिरं भुवने चरित्वा
काशीजुषां भवति कापि विभूतिरन्या ।
अग्रे प्रसारितकराय महेश्वराय
भिक्षां प्रदातुमुचितां प्रभवन्त्यमी यत् ॥३४॥
हस्ते मृगस्तव महेश्वर गौरुपान्ते
भालान्तरालनयने ज्वलनः करालः ।
तद्ब्रूहि नश्यतु कथं न तृणायमाना
त्वामास्थिता कलयितुं मतिरस्मदीया ॥३५॥
संसारधन्वनि महीयसि तीव्रतापे
तृष्णाऽऽकुलेन मनसा नितरां भ्रमद्भ्यः ।
यन्नः प्रयच्छासि जलाञ्जलिमवमग्रे
गङ्गाधरस्य तव तन्न विभो विचित्रम् ॥३६॥
यः सेवकः स्मररिपो तव भालदर्शी
तस्य स्मरो विशति नैव कदापि चित्तम् ।
मृत्युञ्जय श्रयति यश् चरणाम्बजं ते
स्वामिन्न मृत्युरुपसर्पति जातुचित्तम् ॥३७॥
यैरर्प्यते कुसुममेकमनङ्गशत्रो
भक्त्या भवच्चरणयोस् सकृदव सत्त्वैः ।
तषु प्रहर्तुमनसः कुसुमायुधस्य
चित्रं भवन्त्यकुसुमानि जगान्त सद्यः ॥३८॥
मौनी महेश्वर निषीदसि यस्य मूले
न्यग्रोधमात्रमवयन्तु परे जनास्तम् ।
संसारमोक्षपदयोः स्थितमन्तराले
सीमातरुं पुनरमी वयमीरयामः ॥४५॥
यन्निश्चलस् त्वमधुनाप्यसि चित्सभायाम्+++(=चिदम्बरे)+++
अप्युत्क्षिपन्ननिशमेकतरं निजाङ्घ्योः +++(नटराजरूपे)+++।
तद्गृह्णतामपरमीशा भुजोपपीडं
प्रत्येमि वैभवमहं त्वदुपाश्रितानाम् ॥४६॥
निन्दास्तुतिः
एकत्र भिक्षुरपरत्र महेश्वरोऽसि
स्त्रीसङ्गतः क्वचन कुत्रचिदात्तयोगः ।
लीलाप्रदर्शितपरस्परभिन्नवेषस्
तस्माद्विभो नियतमेव महानटस्त्वम् ॥६॥
आपूरिते त्रिजगता सकलेन कुक्षाव्
आदाय दिग्वसन पाणिपुटे कपालम् ।
लोकस्य कस्य नु विभो वद वञ्चनाय
भिक्षापरायण इव भ्रमसि त्वमेवम् ॥७॥
ये श्रद्धया गिरिश दर्शितशिष्यभावास्
त्वामाश्रिता वटमहीरुहमूलभाजम् ।
साधारणोऽपि +++(ब्रह्मलीनत्वात्)+++ तृणरत्नशिलाविवेकस्
तेषां न मूर्च्छत मनस्स्विति कष्टमतत् ॥१० ।।
कालो निरन्तरमदर्शिततारतम्ये
मोक्षान्धकारगहने यदि यापनीयः ।
भालस्पृशा भवदुपासनजन्मना किं
+++(सारूप्यसिद्ध)+++नेत्रान्तरेण फलमीश्वर भावुकानाम् ॥१२॥
सन्तः स्वभावगुणिनस् तव पादपद्मे
दोषाकरः स तु निरन्तरमुत्तमाङ्गे ।
विद्मस्तदीदृशविभागविधानदक्षो
गौरीपते विषमदृष्टिरसि त्वमद्धा ॥२१॥
एको वृषस्त्वयि विभो स पुनः पुराणस्
त्वं यत्र तत्र न कदापि गवां प्रचार: ।
केन प्रलोभयसि तद् वसुना त्रिलोकीं
प्राप्तोऽसि यत्पशुपतित्वपदाभिषेकम् ॥४४॥
त्वत्पणिजाङ्कुरविलूनाशराः कपालिन्
नूनं विधिस्त्वयि बभूव भियानुकूलः ।
एवं न चेत् त्रिपुरमात्राजतः कुतस्ते
विश्वाधिपत्यमकुतोभयमीदृशां स्यात् ॥२४॥
आरोप्य तस्करपतिम् परमेश्वरत्वे
स्वस्थाः कथं भवथ नाम चिराय लोकाः ।
यक्त्या हरिष्यति यदा समये समस्तं
विज्ञास्यथ स्वयममुष्य तदा स्वरूपम् ।। २७ ।।
अनन्य-शरणागतिः
शिष्यं यदीच्छसि विभो वटमूलवासिन्न्
आचार्य तत्र कथयामि विरिञ्चिमेकम् ।
नाद्यापि यो विरतिमेति लिखन्ननन्तान्य्
अस्मल्ललाटफलकेषु दुरक्षराणि ॥१४॥
अन्यदेवाश्रयानपेक्षा
आलम्बने जडतमस्य मम त्रपातः
स्यान् मीनमेषगणना त्रिदशान्तराणाम् ।
ऊरीकरिष्यति हि माममृतांशुमौलिर्
देवो दिगम्बरतयापि न लज्जते यः ॥१३॥
शर्वस्य मादृशजडाश्रयदानदोषस्–
तस्माद्वराणि कुरुते न सुरान्तराणि ।
ताराः शशीव न वहन्ति कलङ्कमङ्के
किं तेन ताः स्वरुचिभिस् तमतिक्रमेरन्? ॥४३॥
नो वेद्मि विष्णुपदवीं न विधातृसद्म
स्वप्नेऽपि नैव कलितो विषयः सुराणाम् ।
काशीमवैमि भगवन्नगरीषु मुख्यां
मां यत्र नेष्यसि ततो नय तत्र शम्भो ॥१५॥
किं कुर्युरल्पमपि शक्रमुखाः सुरा मे
पीत्वा सुधामपि चिराय दिवङ्गता ये ।
निःशेषभुक्तगरलोऽप्यधुनापि कामं
मृत्युञ्जयो भवति यः स हि मे शरण्यः ॥१६॥
दिग्वाससो न च कपालभृतो न भिक्षा-
सञ्चारिणस् त्वमिव देव परे निलिम्पाः।
तद्युक्तमेव भुवनाधिपते जनानाम्
एकोऽपि तेषु यदि शङ्करतां न धत्ते ॥४०॥
आरोहति त्रिभुवने कनकाचलं यो
जन्तुः स नूनमवरोहति कालयोगात् ।
आरोहतस्तु रजताचलमेकवारं
भूयो निवृत्तिरिति न श्रुतमीक्षितं वा ॥३०॥
व्यक्तं भवन्ति पुरुहूतमुखार्पितानि
कल्पद्रुमस्य कुसुमान्यपि निष्फलानि ।
बिल्वस्य पत्रमपि ते चरणारविन्दे
भक्त्यार्पितं भवति भर्ग फलाय पुंसां ॥४२॥
ब्रह्माच्युतप्रभृतिकान् अधिगम्य देवान्–
अन्ते त्वदीयपदपङ्कजमीयुषो मे ।
त्वत्तः परो न भवतीति वचोऽस्ति यत्तन्–
न ज्ञानतः स्फुरति हन्त परन्तु भक्तेः ॥४१॥
त्वामाश्रयन्तमितरानवधूय देवान्
मामद्य नोद्धरसि चेत् तरुणेन्दुमौले।
जानीहि नैष मम केवलमज्ञतायां
लोको हसिष्यति चिराय तवाप्यज्ञातौ ॥३१॥
क्रोधवारणम्
त्वत्ताण्डवेन भुवनानि हृतानि सत्यं
सत्यं बिभर्षि च विभो नटराजशब्दम् ।
एणाङ्कभूषण तथाप्यसि भावुकानाम्
+++(विशिष्य कवेर्)+++ अग्रे वराभयकराभिनयानभिज्ञः ॥४७॥
लोकत्रयी विरचिता न जिता न पुष्पैर्
उद्द्योतिता न किरणैरथवा तमोघ्नैः ।
तत् क्रोधभाजनतयापि कथं पुरारेर्
जायेत जन्तुहतको गणनीय एषः +++(कविः)+++ ॥३९॥
+++(ब्रह्म-काम-पूणाणस् तु प्रसिद्धशिवक्रोधभाजः।)+++
क्रुद्धोऽसि चेन्मयि विभो विहितापराधे
वीक्षस्व कामम् अलिकान्तर+++(=भालान्तर)+++चक्षुषा माम् ।
येनाञ्जसा गलितगात्रमदो भवेयं
भस्मात्मना शशिवतंस तवाङ्गरागः ॥१७॥
उद्धरणाभ्यर्थना
माम् पाशपाणिरधुना मृड +++(मार्कण्डेयप्रकरणाद्)+++ रूढवक्षः-
पूर्वव्रणो ऽयमुपगच्छति मृत्युरुग्रः ।
बद्ध्वाशु तत् +++(तत्र चलनमाकाङ्क्षमाणः)+++ परिकरम् भगवन्निजाङ्घ्रेः
सव्येतरस्य विनिवारय कर्तिकण्डूम् ॥१८॥
मन्दाकिनी शिरसि ते शरणागतानाम्
आनन्दबाष्पविततिश् चरणारविन्दे ।
तत् पक्षपातरहितः कथय स्मरारे
का भूयसा तव तयोर् बहुमानपात्रम् ॥१९॥
बालेन्दुभूषण विभो सदयान्तरङ्गः
संसारगर्तगहनादपुनर्निवृत्त्यै ।
भिक्षाकपालकलनापरुषाङ्गुलिभ्यां
मामुद्धरिष्यसि कदा समये कराभ्याम् ॥२०॥
योगीश्वरान् नियमयन् नुतिवावदूकान्
आकर्णयिष्यति कदा मम जल्पितानि ।
हुङ्कारवारितगणेशगुहोपवेशम्
अङ्कं प्रदास्यति कदा च महेश्वरो मे ॥२३॥
+++(ऊर्ध्वगमनेन)+++ चण्डांशुमण्डलभिदो विनिवारयन्मे
क्लान्तिं किरीटशशिनः शिशिरैर्मयूखैः ।
आविर्भविष्यति कदा नु दयालुरग्रे
सस्वागतोक्ति भगवान् अगजासहायः ॥२५॥
त्वत्पादपङ्कजयुगे भवभीतिभाजस्
तावन्महेश्वर भविष्यति मे विलापः ।
क्रोधेन वा करुणया तव देव यावत्
सम्पत्स्यते न सहसैव समाधिभङ्ग: ॥२९॥
नाहं प्रभो द्रविणदारसुताभिलाषी
मोक्षान्न किञ्चिदवरं परमेश याचे ।
शक्रादिषु त्वमपि नैकतमः सुरेषु
मोक्षान्न किञ्चिदवरम् प्रददासि पुंसे ॥३३॥
अक्ष्णोः जनैरविषयीभवति प्रकाशे
काष्ठां प्रयाति भव बान्धवचक्रशोके ।
सङ्कोचमावहति जीवितपङ्कजे त्वां
सन्ध्यानटं प्रकटमप्यवलोकयेयम् ॥४८॥
समाप्तिः
यन्नर्तिता कविभिरौदरिकैरनल्पम्
मातः सरस्वति पुरा पुरतो जडानाम्।
तन्मा शुचस् तव हि नाट्यविदां पुरोगः
सम्पत्स्यते नचिरमेव गुणग्रहीता ॥४९॥
श्रीशङ्करेणार्यगणेशवाचा
भारावतारस्तव एष चक्रे ।
तत्याज यस्मिन्नुदिते फणीन्द्रः
श्रीकण्ठकर्णाभरणप्रतिष्ठाम् ॥५०॥