व्युत्पत्तयः

रुद्र —

१. रोदयति सर्वमन्तकाले इति
२. रुत् संसाराख्यं दुःखं। तत् द्रावयति अपगमयति विनाशयति इति
३. रुतः शब्दरूपाः उपनिषदः। ताभिर्द्रूयते गम्यते प्रतिपाद्यते इति
४. रुणद्धि आवृणोति इति रुत् अन्धकारादि। तत् दृणाति विदारयतीति
५. पापिनो नरान् दुःखभोगेन रोदयति इति
६. रोदयति शत्रून् इति
७. रवणं रुत् ज्ञानं राति ददाति इति
८. रुत् शब्दात्मिका वाणी। तत्प्रतिपाद्या आत्मविद्या वा। तामुपासकेभ्यो राति ददाति इति
९. रौति शब्दायते तारकं ब्रह्म उपदिशतीति
१०. शब्दब्रह्मात्मना रोरूयमाणो द्रवति सर्वप्राणिहृदये वर्तत इति
११. अस्त्रेण छिन्नशिरसं शोचन्तं प्रजापतिम् अनु स्वयमपि शोकवशाद् अरोदीद् इति
१२. अरोदोदन्तरिक्षे यद् विद्युद्वृष्टिं ददन्नृणाम्। चतुर्भिऋषिभिस्तेन रुद्र इत्यभिसंस्तुतः॥
१३. उत्पत्तिकाले स्वयम् अरुदद् इति
१४. यस्मादृषिभिर्नान्यैर्भक्तैर्द्रुतमस्य रूपमुपलभ्यते तस्मादुच्यते रुद्रः ।