सङ्क्षेपः
- नव-पद-व्योमव्यापि-मन्त्रः
- ॐ व्योम-व्यापिने व्योम-रूपाय सर्व-व्यापिने शिवाय +अनन्ताय +अनाथाय +अनाश्रिताय शिवाय नमः ॥
- १२-पद-व्योमव्यापि-मन्त्रः
- ॐ व्योम-व्यापिने व्योम-व्याप्य-रूपाय सर्व-व्यापिने शिवाय +अनन्ताय +अनाथाय +अनाश्रिताय ध्रुवाय शाश्वताय योग-पीठ-संस्थिताय नित्य-योगिने ध्यानाऽऽहाराय नमः ॥
ध्यानम्
कवचास्त्र-रहितम् (द्रष्टुं नोद्यम्)
वसिष्ठ ऋषिः । गायत्री छन्दः । परमेश्वरो देवता ॥
शूलाहि-टङ्क-घण्टासि–
रणड्-डमरुकं क्रमात् ।
वज्र-पाशाग्र्य् अभीतिं च
दधानं कर-पल्लवैः ॥
कपालम् अक्षमालां च
शूलं खट्वाङ्गम् एव च ।
एवं ध्यात्वा प्रभुं दिव्यं
ततो यजनम् आरभेत् ॥
कवचास्त्र-सहितम् (द्रष्टुं नोद्यम्)
कल्पान्तार्कं सहस्राभं
रक्ताक्तं रक्तवाससं ।
दंष्ट्राकराल-संभिन्नम्
पञ्चवक्रम् भयङ्करम् ॥
केशैश् च कपिलैर् दीप्तं
ज्वालमाला-समाकुलम् ।
टङ्कं चर्म कपालं च
चापं नागं च वामतः ॥
शूलं खड्गं युगान्ताग्निं
बाणं वरदम् एव हि ।
दक्षिणैः स्वभुजैर् दीप्तं
रुद्रं ध्यात्वा यजेत् प्रभुम् ॥
पाठः
सैद्धान्तिकः
ॐ व्योम-व्यापिने व्योम-रूपाय सर्व-व्यापिने शिवाय
अनन्ताय +अनाथाय +अनाश्रिताय ध्रुवाय [१] शाश्वताय
योगपीठ-संस्थिताय नित्य-योगिने ध्यानाहाराय
ॐ नमः शिवाय
सर्व-प्रभवे
शिवाय
+++(पञ्चब्रह्ममन्त्राः)+++
ईशान-मूर्धाय तत्-पुरुष-वक्त्राय अघोर-हृदयाय वामदेव-गुह्याय सद्योजात-मूर्तये। [२]
ॐ नमो नमः
गुह्यातिगुह्याय गोप्त्रे निधनाय
(सर्व-योगाधिकृताय) सर्व-विद्याधिपाय ज्योतीरूपाय परमेश्वर-पराय॥ [३]
+++(सुखदुःखाद्य्)+++अचेतन, +++(अचिन्त्यत्वाद् अपि)+++अचेतन
+++(आकाशाख्य-)+++व्योमिन्, +++(मायातीत)+++व्योमिन्
व्यापिन् व्यापिन्
अरूपिन् +++(रूपिणां सङ्कुचितकर्मदृष्ट्या गृहीतानां ब्रह्मादीनाम् अप्य् अपेक्षया )+++ अरूपिन्
+++(मुख्यत्वात्)+++ प्रथम +++(अनादित्वाच्च)+++ प्रथम
तेजस्-तेजः
ज्योतिर्-ज्योतिः
+++(ज्योतिष्ट्वे ऽपि)+++ अरूप! अनग्ने! अधूम! अभस्म! अनादे!
+++(ब्रह्मरूपि)+++ना +++(विष्णुरूपि)+++ना +++(परमेश्वररूपि)+++ना
+++(ब्रह्म-ना)+++धू+++(=कम्पन)+++ +++(विष्णु-ना)+++धू +++(ईश्वर-ना-)+++धू +++(नपुंसकलिङ्गकप्रयोगः)+++
भूः, भुवः, सुवः
अनिधन निधन निधनोद्भव
शिव श+++(स)+++र्व
परमात्मन्
महेश्वर महादेव
सद्भावेश्वर महातेजः योगाधिपते
मुञ्च मुञ्च
+++(पाशप्रथनेन)+++प्रथम प्रथम
+++(शरणाद् वरणाच्च)+++ शर्व शर्व
+++(लोके)+++ भव +++(परे च व्योम्नि)+++ भव
भवोद्भव
सर्व-भूत-सुख-प्रद
सर्व-सान्निध्यकर
ब्रह्म-विष्णु-रुद्र-पर
+++(ज्ञानानाम् प्राग् अमत्वाद्)+++ अनर्चित +++(पश्चाद् अपि न पर्याप्तम् अर्चित इति )+++ अनर्चित
+++(अदृष्टपूर्वत्वाद्)+++ असंस्तुत +++(अचिन्त्यत्वाद्)+++ असंस्तुत
पूर्व-स्थित +++(परेऽपि व्योम्नि)+++ पूर्व-स्थित
+++(लोक-)+++साक्षिन् +++(कर्म-)+++साक्षिन्
+++(दीक्षायां)+++ तुरु+++(=त्वर)+++ +++(शिवसायुज्ये च)+++ तुरु
+++(तेजोमूर्तौ)+++ पतङ्ग +++(मूर्त्यन्तरे च)+++ पतङ्ग
+++(तेजोमूर्तौ)+++ पिङ्ग +++(मूर्त्यन्तरे च)+++ पिङ्ग
ज्ञान ज्ञान
शब्द +++(परा-वाग्रूप-)+++शब्द
सूक्ष्म सूक्ष्म
शिव शर्व
सर्वद
शिवाय नमो नमः
ॐ
नमो नमः
+++(वज्रायुधमन्त्रः)+++
ॐ
पाशुपततन्त्रात्
मानसतरङ्गिणीकृत् - टिप्पनी
The core mantra (i.e., without kavacha & astra) is exactly 365 syllables. The versions from saiddhAntika texts from South India have more than 365 – 368-374 typically. We believe the pAshupata versions is close to the original as the old saiddhAntika text described rudra embodied by this mantra as “saMvatsara-sharIriNaH”. This would also be consistent with 9-fold maNDala taught by the Kashmirian mantravAdin bhaTTa rAmakaNTha-II & followed by his southern successors: this would imply 40 syllables along each spoke & the pa~ncha-praNava at the nave.
ॐ × ५
हं ॐ नमो व्योमरूपाय व्यापिने शिवाय,
अनन्ताय, अनाथाय, अनाश्रिताय,
ध्रुवाय शाश्वताय
योगपीठादिसंस्थिताय नित्ययोगिने ध्यानाहाराय ।
ॐ नमः शिवाय
ईशान-मूर्ध्नाय, तत्पुरुष-वक्त्राय, अघोर-हृदयाय, वामदेव-गुह्याय, सद्योजात-मूर्तये ।
ॐ नमः गुह्यादि-गुह्याय गोप्त्रे +अनिधनाय सर्व-विद्याधिपाय ज्योतीरूपाय परमेश्वरपराय ।
अचेतनाचेतन । व्योमिन् × २ । व्यापिन् × २ । अरूपिन् × २ । प्रथम × २ । तेजस् तेजः । ज्योतिर् ज्योतिः ।
अरूप । अनग्ने । अधूम । अभस्म । अनादे ।
ना ना ना ना । धू धू धू धू ।
ॐ भूर्भुवः स्वः ।
अनिधन । निधनोद्भव ।
शिव । शर्व । सर्वपर । महेश्वर । महादेव । सद्भावेश्वर । महातेज । योगाधिपते!
मुञ्च मुञ्च प्रमथ प्रमथ ।
शिव । शर्व । भवोद्भव -
विध्य विध्य ।
वामदेव । सर्व-भूत-सुखप्रद । सर्व- सांनिध्यकर । ब्रह्मा-विष्णु-रुद्र-पर ।
अनर्चित × २ । असंस्थित X २ । पूर्वस्थित X २ । साक्षिन् X २ ।
तुरु × २ । पतङ्ग × २ । ज्ञान × २ । शब्द × २ । सूक्ष्म × २ ।
शिव । शर्व । सर्वद ।
ॐ नमः शिवाय,
ॐ ह्रीं शिवाय,
ॐ हं ह्रीं शिवाय,
ॐ नमो नमः ॥
ससन्धिपाठः (द्रष्टुं नोद्यम्)
ॐ ॐ ॐ ॐ ॐ
हं ॐ नमो व्योमरूपाय व्यापिने शिवायानन्तायानाथायानाश्रिताय,
ध्रुवाय शाश्वताय
योगपीठादिसंस्थिताय नित्ययोगिने ध्यानाहाराय ।
ॐ नमः शिवायेशान-मूर्ध्नाय, तत्पुरुष-वक्त्रायाघोर-हृदयाय, वामदेव-गुह्याय, सद्योजात-मूर्तये ।
ॐ नमो गुह्यादि-गुह्याय गोप्त्रे ऽनिधनाय सर्व-विद्याधिपाय ज्योतीरूपाय परमेश्वर-पराय!
अचेतनाचेतन । व्योमिन् व्योमिन् । व्यापिन् व्यापिन्न् । अरूपिन्न् अरूपिन् । प्रथम प्रथम । तेजस् तेजः । ज्योतिर् ज्योतिः। अरूप। अनग्ने। अधूम। अभस्म। अनादे ।
ना ना ना ना । धू धू धू धू ।
ॐ भूर्भुवः स्वः ।
अनिधन । निधनोद्भव ।
शिव । शर्व । सर्वपर । महेश्वर । महादेव । सद्भावेश्वर । महातेज । योगाधिपते!
मुञ्च मुञ्च, प्रमथ प्रमथ ।
शिव । शर्व । भवोद्भव -
विध्य विध्य ।
वामदेव । सर्व-भूत-सुखप्रद । सर्व- सांनिध्यकर । ब्रह्मा-विष्णु-रुद्र-पर।
अनर्चितानर्चित। असंस्थितासंस्थित । पूर्वस्थित पूर्वस्थित । साक्षिन् साक्षिन् ।
तुरु तुरु । पतङ्गपतङ्ग । ज्ञान ज्ञान । शब्द शब्द । सूक्ष्म सूक्ष्म ।
शिव । शर्व । सर्वद ।
ॐ नमः शिवाय,
ॐ ह्रीं शिवाय,
ॐ हं ह्रीं शिवाय,
ॐ नमो नमः ॥
अस्त्रम्
ॐ नमः सर्वात्मने पराय परमेश्वराय पराय योगाय ।
योग-सम्भव-कर सद्यो-भवोद्भव
वामदेव सर्व-कर्म-प्रशमन सदा-शिव नमो ऽस्तु ते स्वाहा ।
सुशिव शिव नमो ब्रह्मशिरसे ।
शिव-हृदय-ज्वालिनि-ज्वालिन्यै स्वाहा ।
कवचम्
ॐ
शिवात्मकम् महातेजः
सर्वज्ञम् प्रभुम् अव्ययम् ।
आवर्तयेन् महाघोरं
कवचं पिङ्गलं शुभम् ।
आयाहि पिङ्गलम् महाकवचं शिवाज्ञया हृदयम् बन्ध ।
ज्वल घूर्ण संस्फुर किरि+++(=??)+++
शक्ति-वज्रधर वज्रपाश वज्रशरीर
मम शरीरम् अनुप्रविश्य, सर्वदुष्टान् स्तम्भय हुं फट् ।
ॐ जूं सः ज्योतीरूपाय नमः ।
ॐ प्रस्फुर
घोर-घोरतर-तनु-रूप
चट दह वम बन्ध घातय हुं फट् ॥