प्रजनने ब्रह्मा

  • ॐ प्रजनने ब्रह्मा तिष्ठतु ।
  • पादयोर् विष्णुस् तिष्ठतु ।
  • हस् तयोर् हरस् तिष्ठतु ।
  • बाह्वोर् इन्द्रस् तिष्ठतु ।
  • जठरेऽग्निस् तिष्ठतु ।
  • हृदये शिवस् तिष्ठतु ।
  • कण्ठे वसवस् तिष्ठन्तु ।
  • वक्त्रे सरस्वती तिष्ठतु ।
  • नासिकयोर् वायुस् तिष्ठतु ।
  • नयनयोश् चन्द्रादित्यौ तिष्ठेताम् ।
  • कर्णयोर् अश्विनौ तिष्ठेताम् ।
  • ललाटे रुद्रास् तिष्ठन्तु ।
  • मूर्ध्न्य् आदित्यास् तिष्ठन्तु।
  • शिरसि महादेवस् तिष्ठतु ।
  • शिखायां वामदेवस् तिष्ठतु ।
  • पृष्ठे पिनाकी तिष्ठतु ।
  • पुरतः शूली तिष्ठतु ।
  • पार्श्वयोः शिवाशङ्करौ तिष्ठेताम् ।
  • सर्वतो वायुस् तिष्ठतु ।
  • ततो बहिः सर्वतोऽग्निर् ज्वालामाला-परिवृतस् तिष्ठतु ।
  • सर्वेष्व् अङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु ।
  • माँ रक्षन्तु । यजमानं रक्षन्तु।