
गणपतिः
- गणेशचतुर्थ्यां लोक आचर्यमाणायां गणपतिर् आविर्बभूव दृढं सवितुः स्थाने, तत्रापि गायत्रीश्येनस्योपरि! विचित्रं दृश्यम्। पश्चाद् विचार्य - समञ्जसं हि तद् इत्यभात्। कुतः - अनुज्ञादाताराव् उभाव् अपि, सर्वकर्मस्व् आदौ कीर्तितौ। किञ्च व्यावृत्तिर् एषा - विनायको भयानको विघ्नोत्पादने ऽपि दक्षः, न केवलविघ्नोपशमने।