महालक्ष्म्यष्टकम्

नमस्तेऽस्तु महा-माये
श्रीपीठे सुर-पूजिते ।
शङ्ख-चक्र-गदा-हस्ते
महा-लक्ष्मि नमोऽस्तुते ॥१॥

नमस्ते गरुडाऽऽरूढे
कोलासुर-भयङ्करि ।
सर्व-पापहरे देवि
महा-लक्ष्मि नमोऽस्तुते ॥२॥

सर्वज्ञे सर्व-वरदे
सर्व-दुष्ट-भयङ्करि ।
सर्व-दुःख-हरे देवि
महा-लक्ष्मि नमोऽस्तुते ॥३॥

सिद्धि-बुद्धि-प्रदे देवि
भुक्ति-मुक्ति-प्रदायिनि ।
मन्त्र-मूर्ते सदा देवि
महा-लक्ष्मि नमोऽस्तुते ॥४॥

आद्य्-अन्त-रहिते देवि
आद्य-शक्ति-महेश्वरि ।
योगज्ञे योग-सम्भूते
महा-लक्ष्मि नमोऽस्तुते ॥५॥

स्थूल-सूक्ष्मे महारौद्रे
महा-शक्ति-महोदरे ।
महा-पाप-हरे देवि
महा-लक्ष्मि नमोऽस्तुते ॥६॥

पद्मासन-स्थिते देवि
पर-ब्रह्म-स्वरूपिणि ।
परमेशि जगन्मातर्
महा-लक्ष्मि नमोऽस्तुते ॥७॥

श्वेताम्बर-धरे देवि
नानालङ्कार-भूषिते ।
जगत्-स्थिते जगन्-मातर्
महा-लक्ष्मि नमोऽस्तुते ॥८॥

फलश्रुतिः

महा-लक्ष्म्य्-अष्टकं स्तोत्रं
यः पठेद् भक्तिमान् नरः ।
सर्व-सिद्धिम् अवाप्नोति
राज्यं प्राप्नोति सर्वदा ॥९॥

एक-काले पठेन् नित्यं
महा-पाप-विनाशनम् ।
द्वि-कालं यः पठेन् नित्यं
धन-धान्य-समन्वितः ॥१०॥

त्रिकालं यः पठेन् नित्यं
महा-शत्रु-विनाशनम् ।
महा-लक्ष्मीर् भवेन् नित्यं
प्रसन्ना वरदा शुभा ॥११॥