श्री-सूक्तम्

०१ द्राविडपाठः ...{Loading}...

परिचयः

This pAtha is from the book ‘yAjusha mantra ratnakaram’ in grantha script, re-printed by Sri Krishnamurti Shastrigal.
It’s original print is likely by vaidhika vardhini press from Kumbhakonam.
What you see in this pAtha (as opposed to the more popular patha) is that it doesn’t have multiple anudAttas in a row in the middle of phrases.

इत्य् अजितः।
तथापि क्वचित् स्वरः सन्देहास्पदम्।
बहुत्र +अर्वाचीनछन्दोरागानुकरणम् इवैव भाति।

विश्वास-प्रस्तुतिः

हिर॑ण्यवर्णां॒ हरि॑णीं सुव॒र्णर॑ज॒तस्र॑जाम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह॥

मूलम्

तां म॒ आव॑ह जातवेदो ल॒क्ष्मीम् अन॑पगा॒मिनी॑म् +++(←स्वरः??)+++।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गाम् अश्वं॒ पुरु॑षान् अ॒हम्॥

अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑द-प्र॒बोधि॑नीम्।
श्रियं॑ दे॒वीम् उप॑ह्वये॒ श्रीर् मा॑ दे॒वीर् जु॑षताम्॥

काँ॒सो॒ऽस्मि॒तां हिर॑ण्य-प्रा॒कारा॑म् आ॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम्।
प॒द्मे॒स्थि॒तां प॒द्मव॑र्णां ताम् इ॒होप॑ह्वये॒ श्रिय॑म्॥

च॒न्द्रां प्र॑भा॒सां य॒शसा॒+++(स्वरः?)+++ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टाम् उदा॒राम्।
तां प॒द्मिनी॑मीं॒ शर॑णम् अ॒हं प्रप॑द्ये ऽल॒क्ष्मीर् मे॑ नश्यतां॒ त्वां वृ॑णे॥

आ॒दि॒त्यव॑र्णे॒ तप॒सो ऽधि॑जा॒तो वन॒स्पति॒स् तव॑ वृ॒क्षो ऽथ बि॒ल्वः।
तस्य॒ फला॑नि॒ तप॒साऽऽनु॑दन्तु मा॒यान्त॑रा॒याश् च॑ बा॒ह्या अ॑ल॒क्ष्मीः॥

उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश् च॒ मणि॑ना स॒ह।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिम् ऋ॑द्धिं+++(स्वरः?)+++ द॒दातु॑ मे॥

क्षुत्पि॑पा॒साम॑लां+++(स्वरः?)+++ ज्ये॒ष्ठाम् अल॒क्ष्मीं+++(स्वरः?)+++ ना॑शया॒म्य् अहम्।
अभू॑ति॒म् अस॑मृद्धिं॒ च सर्वा॒न् निर्णु॑द मे॒ गृहा॑त्॥

गन्ध॑द्वा॒रां+++(स्वरः?)+++ दु॑राध॒र्षां नि॒त्यपु॑ष्टां करी॒षिणी॑म्।
ई॒श्वरीं॑ सर्व॑भूतानां॒ ताम् इ॒होप॑ह्वये॒ श्रिय॑म्॥

मन॑सः॒ काम॒म् आकू॑तिं वा॒चः स॒त्यम् अ॑शीमहि।
प॒शू॒नां रूप॑म् अन्न॒स्य मयि॒ श्रीः श्र॑यतां॒ यशः॑॥

कर्द॑मे॒न+++(स्वरः?)+++ प्र॑जाभू॒ता म॒यि सं॑भव॒ कर्द॑म।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम्॥

आपः॑ सृ॒जन्तु॑ स्निग्धा॒नि चिक्ली॒त व॑स मे॒ गृहे।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले॥

आ॒र्द्रां यः॒करि॑णीं य॒ष्टिं पि॒ङ्गलां॑ पद्म॒मालि॑नीम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह॥

मूलम्

आ॒र्द्रां यः॒करि॑णीं य॒ष्टिं पि॒ङ्गलां॑ पद्म॒मालि॑नीम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह॥

विश्वास-प्रस्तुतिः

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं सु॒वर्णां॑ हेम॒मालि॑नीम्।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह॥

विश्वास-टिप्पनी - क्रमः

श्रीवैष्णवेष्व् ऋग्वेदिनो ऽनिरुद्धस्य परम्परायाम्, करुणाकरार्य एतयोर् ऋचोः क्रमो आ॒र्द्रां यः॒करि॑णीं … आ॒र्द्रां पु॒ष्करि॑णीम् इति।
स्मार्तस्य कृष्णमूर्तिशास्त्रिणस् तु क्रमो विपरीतः॥

रामकृष्ण-मठ-ग्रन्थे -

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं पि॒ङ्गलां॑ पद्म॒मालि॑नीम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह॥

आ॒र्द्रां यः॒करि॑णीं य॒ष्टिं सु॒वर्णां॑ हेम॒मालि॑नीम्।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।

विश्वास-प्रस्तुतिः

तां म॒ आव॑ह+++(स्वरः?)+++ जात॑वेदो ल॒क्ष्मीम् अन॑पगा॒मिनी॑म्।
यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्यो ऽश्वा॑न् वि॒न्देयं॒ पुरु॑षान् अ॒हम्॥