०१ योऽपाम् (मन्त्रपुष्पम्) ...{Loading}...
भट्टभास्कर-टीका
अतः परमबिष्टकानां ब्राह्मणम् ।
तद्-अर्थम् आपस् स्तूयन्ते - योऽपामिति ॥
विश्वास-प्रस्तुतिः
यो॒॑ऽपां पुष्प॒व्ँ वेद॒
पुष्प॑वान् प्र॒जावा॑न् पशु॒मान् भ॑वति ।
मूलम्
यो॑ऽपां पुष्प॒व्ँ वेद॑ ।
पुष्प॑वान्प्र॒जावा॑न्पशु॒मान्भ॑वति ।
विश्वास-प्रस्तुतिः
च॒न्द्रमा॒ वा अ॒पां पुष्प॑म् ।
मूलम्
च॒न्द्रमा॒ वा अ॒पां पुष्प॑म् ।
भट्टभास्कर-टीका
रसात्मकत्वाच् चन्द्रमा अपां पुष्पम् ।
यद्वा - लतानां कुसुमवज् जगद्-आह्लादिन्य् अपां परिणतिश्चन्द्रमाः ।
विश्वास-प्रस्तुतिः
पुष्प॑वान् प्र॒जावा॑न् पशु॒मान् भ॑वति॒
य ए॒वव्ँ वेद॑ ।
मूलम्
पुष्प॑वान्प्र॒जावा॑न्पशु॒मान्भ॑वति ।
य ए॒वव्ँ वेद॑ ।
भट्टभास्कर-टीका
एवं वेदिता पुष्पादि-समृद्धो भवति ।
पुनर्वचनं परिशिष्ट-प्रतिपादनार्थं;
न चन्द्र-ज्ञान-मात्रात् पुष्पादिमत्ता
अपि त्व् अपां पुष्पतया यो वेद
इति प्रतिपादनार्थम् । एवं सर्वत्र ॥१॥
भट्टभास्कर-टीका
एवमिदानीम् अपाम् अग्न्यादीनां च परस्पराधार्याधार-भावेन जगत्-प्रतिष्ठाकारणत्वं प्रतिपादयति -
यो॑ऽपामा॒यत॑न॒व्ँ वेद॑ ...{Loading}...
विश्वास-प्रस्तुतिः
यो॒॑ ऽपाम् आ॒यत॑न॒व्ँ वेद॑
आ॒यत॑नवान् भवति ।
मूलम्
यो॑ऽपामा॒यत॑न॒व्ँ वेद॑ ।
आ॒यत॑नवान्भवति ।
भट्टभास्कर-टीका
आयतनं स्थानं कारणम् ।
तच्च यथासम्भवं यथाकथञ्चित् कल्प्यम् ।
ज्ञानमात्रं फलाय भवति श्रुतिसामर्थ्यात् ।
विश्वास-प्रस्तुतिः
अ॒ग्निर्वा अ॒पाम् आ॒यत॑नम् ।
मूलम्
अ॒ग्निर्वा अ॒पामा॒यत॑नम् ।
भट्टभास्कर-टीका
अपां कारणमग्निः “अग्नेरापः” इति दर्शनात् । यद्वा - आहुत्याद्यात्मिकानामपाम् आदित्यात्मा अग्निः स्थानं “अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते” इति ।
आ॒यत॑नवान्भवति ...{Loading}...
विश्वास-प्रस्तुतिः
आ॒यत॑नवान्भवति ।
मूलम्
आ॒यत॑नवान्भवति ।
भट्टभास्कर-टीका
एवं वेदिता शोभनायतनः शोभनकारणो वा भवति ॥२॥
विश्वास-प्रस्तुतिः
यो॑ऽग्नेरा॒यत॑न॒व्ँ वेद॑[77]
आ॒यत॑नवान्भवति ।
मूलम्
यो॑ऽग्नेरा॒यत॑न॒व्ँ वेद॑[77]
आ॒यत॑नवान्भवति ।
विश्वास-प्रस्तुतिः
आपो॒ वा अ॒ग्नेरा॒यत॑नम् ।
मूलम्
आपो॒ वा अ॒ग्नेरा॒यत॑नम् ।
भट्टभास्कर-टीका
अग्नेश्चापः कारणं सूक्ष्मा आपः सर्वं लोकं धारयन्तीति । यद्वा - अग्नेरापस्स्थानम् और्वादीनामप्सु दर्शनात्, पर्जन्यात्मना आदित्यावस्थानाच्च ।
विश्वास-प्रस्तुतिः
आ॒यत॑नवान् भवति॒
य ए॒वव्ँ वेद॑ ।
मूलम्
आ॒यत॑नवान्भवति ।
य ए॒वव्ँ वेद॑ ।
यो॑ऽपामा॒यत॑न॒व्ँ वेद॑ ...{Loading}...
विश्वास-प्रस्तुतिः
यो॒॑ ऽपाम् आ॒यत॑न॒व्ँ वेद॑
आ॒यत॑नवान् भवति ।
मूलम्
यो॑ऽपामा॒यत॑न॒व्ँ वेद॑ ।
आ॒यत॑नवान्भवति ।
भट्टभास्कर-टीका
आयतनं स्थानं कारणम् ।
तच्च यथासम्भवं यथाकथञ्चित् कल्प्यम् ।
ज्ञानमात्रं फलाय भवति श्रुतिसामर्थ्यात् ।
विश्वास-प्रस्तुतिः
वा॒युर्वा अ॒पामा॒यत॑नम् ।
मूलम्
वा॒युर्वा अ॒पामा॒यत॑नम् ।
भट्टभास्कर-टीका
वायुरपां कारणं स्रवणहेतुत्वात् ।
आ॒यत॑नवान्भवति ...{Loading}...
विश्वास-प्रस्तुतिः
आ॒यत॑नवान्भवति ।
मूलम्
आ॒यत॑नवान्भवति ।
भट्टभास्कर-टीका
एवं वेदिता शोभनायतनः शोभनकारणो वा भवति ॥२॥
विश्वास-प्रस्तुतिः
यो वा॒योर् आ॒यत॑न॒व्ँ वेद॑ ।
आ॒यत॑नवान्भवति ।
[78]
मूलम्
यो वा॒योरा॒यत॑न॒व्ँ वेद॑ ।
आ॒यत॑नवान्भवति ।
[78]
विश्वास-प्रस्तुतिः
आपो॒ वै वा॒योर् आ॒यत॑नम् ।
मूलम्
आपो॒ वै वा॒योरा॒यत॑नम् ।
भट्टभास्कर-टीका
आपश् च वायोः कारणम् अप्कारणकत्वात् सर्वस्य ॥३॥
आ॒यत॑नवान्भवति ...{Loading}...
विश्वास-प्रस्तुतिः
आ॒यत॑नवान्भवति ।
य ए॒वव्ँ वेद॑ ।
मूलम्
आ॒यत॑नवान्भवति ।
य ए॒वव्ँ वेद॑ ।
यो॑ऽपामा॒यत॑न॒व्ँ वेद॑ ...{Loading}...
विश्वास-प्रस्तुतिः
यो॒॑ ऽपाम् आ॒यत॑न॒व्ँ वेद॑
आ॒यत॑नवान् भवति ।
मूलम्
यो॑ऽपामा॒यत॑न॒व्ँ वेद॑ ।
आ॒यत॑नवान्भवति ।
भट्टभास्कर-टीका
आयतनं स्थानं कारणम् ।
तच्च यथासम्भवं यथाकथञ्चित् कल्प्यम् ।
ज्ञानमात्रं फलाय भवति श्रुतिसामर्थ्यात् ।
विश्वास-प्रस्तुतिः
अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् ।
मूलम्
अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् ।
भट्टभास्कर-टीका
असौ तपन्नादित्यो ऽपां कारणं “आदित्याज्जायते वृष्टिः” इति ।
आ॒यत॑नवान्भवति ...{Loading}...
विश्वास-प्रस्तुतिः
आ॒यत॑नवान्भवति ।
मूलम्
आ॒यत॑नवान्भवति ।
भट्टभास्कर-टीका
एवं वेदिता शोभनायतनः शोभनकारणो वा भवति ॥२॥
विश्वास-प्रस्तुतिः
यो॑ऽमुष्य॒ तप॑त आ॒यत॑न॒व्ँ वेद॑ ।
आ॒यत॑नवान्भवति ।
मूलम्
यो॑ऽमुष्य॒ तप॑त आ॒यत॑न॒व्ँ वेद॑ ।
आ॒यत॑नवान्भवति ।
विश्वास-प्रस्तुतिः
आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम् ।
[79]
मूलम्
आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम् ।
[79]
भट्टभास्कर-टीका
आदित्यस्य चापः कारणं तासां सर्वयोनित्वात् ॥४॥
आ॒यत॑नवान्भवति ...{Loading}...
विश्वास-प्रस्तुतिः
आ॒यत॑नवान्भवति ।
य ए॒वव्ँ वेद॑ ।
मूलम्
आ॒यत॑नवान्भवति ।
य ए॒वव्ँ वेद॑ ।
यो॑ऽपामा॒यत॑न॒व्ँ वेद॑ ...{Loading}...
विश्वास-प्रस्तुतिः
यो॒॑ ऽपाम् आ॒यत॑न॒व्ँ वेद॑
आ॒यत॑नवान् भवति ।
मूलम्
यो॑ऽपामा॒यत॑न॒व्ँ वेद॑ ।
आ॒यत॑नवान्भवति ।
भट्टभास्कर-टीका
आयतनं स्थानं कारणम् ।
तच्च यथासम्भवं यथाकथञ्चित् कल्प्यम् ।
ज्ञानमात्रं फलाय भवति श्रुतिसामर्थ्यात् ।
विश्वास-प्रस्तुतिः
च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् ।
मूलम्
च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् ।
भट्टभास्कर-टीका
चन्द्रमा वा अपामायतनं स्थानं तस्यामृतभागत्वात् ।
आ॒यत॑नवान्भवति ...{Loading}...
विश्वास-प्रस्तुतिः
आ॒यत॑नवान्भवति ।
मूलम्
आ॒यत॑नवान्भवति ।
भट्टभास्कर-टीका
एवं वेदिता शोभनायतनः शोभनकारणो वा भवति ॥२॥
विश्वास-प्रस्तुतिः
यश्च॒न्द्रम॑स आ॒यत॑न॒व्ँ वेद॑ । आ॒यत॑नवान्भवति ।
मूलम्
यश्च॒न्द्रम॑स आ॒यत॑न॒व्ँ वेद॑ । आ॒यत॑नवान्भवति ।
विश्वास-प्रस्तुतिः
आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम् ।
मूलम्
आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम् ।
भट्टभास्कर-टीका
चन्द्रमसश् च आपो योनयस् तद्विकारत्वात् । ॥५॥
आ॒यत॑नवान्भवति ...{Loading}...
विश्वास-प्रस्तुतिः
आ॒यत॑नवान्भवति ।
य ए॒वव्ँ वेद॑ ।
मूलम्
आ॒यत॑नवान्भवति ।
य ए॒वव्ँ वेद॑ ।
यो॑ऽपामा॒यत॑न॒व्ँ वेद॑ ...{Loading}...
विश्वास-प्रस्तुतिः
यो॒॑ ऽपाम् आ॒यत॑न॒व्ँ वेद॑
आ॒यत॑नवान् भवति ।
मूलम्
यो॑ऽपामा॒यत॑न॒व्ँ वेद॑ ।
आ॒यत॑नवान्भवति ।
भट्टभास्कर-टीका
आयतनं स्थानं कारणम् ।
तच्च यथासम्भवं यथाकथञ्चित् कल्प्यम् ।
ज्ञानमात्रं फलाय भवति श्रुतिसामर्थ्यात् ।
विश्वास-प्रस्तुतिः
नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम् ।
मूलम्
नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम् ।
भट्टभास्कर-टीका
नक्षत्राण्यपामायतनं कारणं चन्द्रादियोगवशेन वर्षहेतुत्वात् ।
आ॒यत॑नवान्भवति ...{Loading}...
विश्वास-प्रस्तुतिः
आ॒यत॑नवान्भवति ।
मूलम्
आ॒यत॑नवान्भवति ।
भट्टभास्कर-टीका
एवं वेदिता शोभनायतनः शोभनकारणो वा भवति ॥२॥
विश्वास-प्रस्तुतिः
यो नक्ष॑त्राणामा॒यत॑न॒व्ँ वेद॑ ।
आ॒यत॑नवान्भवति ।
मूलम्
यो नक्ष॑त्राणामा॒यत॑न॒व्ँ वेद॑ ।
आ॒यत॑नवान्भवति ।
विश्वास-प्रस्तुतिः
आपो॒ वै नक्ष॑त्राणामा॒यत॑नम् ।
मूलम्
आपो॒ वै नक्ष॑त्राणामा॒यत॑नम् ।
भट्टभास्कर-टीका
नक्षत्राणां च आपः कारणं ताभिर्विना तेषामवस्थानाभावात् ॥६॥
आ॒यत॑नवान्भवति ...{Loading}...
विश्वास-प्रस्तुतिः
आ॒यत॑नवान्भवति ।
य ए॒वव्ँ वेद॑ ।
मूलम्
आ॒यत॑नवान्भवति ।
य ए॒वव्ँ वेद॑ ।
[81]
यो॑ऽपामा॒यत॑न॒व्ँ वेद॑ ...{Loading}...
विश्वास-प्रस्तुतिः
यो॒॑ ऽपाम् आ॒यत॑न॒व्ँ वेद॑
आ॒यत॑नवान् भवति ।
मूलम्
यो॑ऽपामा॒यत॑न॒व्ँ वेद॑ ।
आ॒यत॑नवान्भवति ।
भट्टभास्कर-टीका
आयतनं स्थानं कारणम् ।
तच्च यथासम्भवं यथाकथञ्चित् कल्प्यम् ।
ज्ञानमात्रं फलाय भवति श्रुतिसामर्थ्यात् ।
विश्वास-प्रस्तुतिः
प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् ।
मूलम्
प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् ।
भट्टभास्कर-टीका
पर्जन्योऽपां कारणं वृष्टिहेतुत्वात् ।
आ॒यत॑नवान्भवति ...{Loading}...
विश्वास-प्रस्तुतिः
आ॒यत॑नवान्भवति ।
मूलम्
आ॒यत॑नवान्भवति ।
भट्टभास्कर-टीका
एवं वेदिता शोभनायतनः शोभनकारणो वा भवति ॥२॥
विश्वास-प्रस्तुतिः
यः प॒र्जन्य॑स्या॒यत॑न॒व्ँ वेद॑ ।
आ॒यत॑नवान्भवति ।
मूलम्
यः प॒र्जन्य॑स्या॒यत॑न॒व्ँ वेद॑ ।
आ॒यत॑नवान्भवति ।
विश्वास-प्रस्तुतिः
आपो॒ वै प॒र्जन्य॑स्या॒यत॑नम् ।
मूलम्
आपो॒ वै प॒र्जन्य॑स्या॒यत॑नम् ।
भट्टभास्कर-टीका
पर्जन्यस्यापः कारणं तदधीनस्थितित्वात्तस्य ॥७॥
आ॒यत॑नवान्भवति ...{Loading}...
विश्वास-प्रस्तुतिः
आ॒यत॑नवान्भवति ।
य ए॒वव्ँ वेद॑ ।
मूलम्
आ॒यत॑नवान्भवति ।
य ए॒वव्ँ वेद॑ ।
यो॑ऽपामा॒यत॑न॒व्ँ वेद॑ ...{Loading}...
विश्वास-प्रस्तुतिः
यो॒॑ ऽपाम् आ॒यत॑न॒व्ँ वेद॑
आ॒यत॑नवान् भवति ।
मूलम्
यो॑ऽपामा॒यत॑न॒व्ँ वेद॑ ।
आ॒यत॑नवान्भवति ।
भट्टभास्कर-टीका
आयतनं स्थानं कारणम् ।
तच्च यथासम्भवं यथाकथञ्चित् कल्प्यम् ।
ज्ञानमात्रं फलाय भवति श्रुतिसामर्थ्यात् ।
विश्वास-प्रस्तुतिः
स॒व्ँव॒त्स॒रो वा अ॒पामा॒यत॑नम् ।
मूलम्
स॒व्ँव॒त्स॒रो वा अ॒पामा॒यत॑नम् ।
भट्टभास्कर-टीका
संवत्सरोऽपां स्थानं कारणं च ।
आ॒यत॑नवान्भवति ...{Loading}...
विश्वास-प्रस्तुतिः
आ॒यत॑नवान्भवति ।
मूलम्
आ॒यत॑नवान्भवति ।
भट्टभास्कर-टीका
एवं वेदिता शोभनायतनः शोभनकारणो वा भवति ॥२॥
विश्वास-प्रस्तुतिः
यस्स॑व्ँवत्स॒रस्या॒यत॑न॒व्ँ वेद॑ ।
आ॒यत॑नवान्भवति ।
मूलम्
यस्स॑व्ँवत्स॒रस्या॒यत॑न॒व्ँ वेद॑ ।
आ॒यत॑नवान्भवति ।
विश्वास-प्रस्तुतिः
आपो॒ वै स॑व्ँवत्स॒रस्या॒यत॑नम् ।
मूलम्
आपो॒ वै स॑व्ँवत्स॒रस्या॒यत॑नम् ।
भट्टभास्कर-टीका
संवत्सरस्यापः कारणम् अपां कालात्मना परिणामात् ॥८॥
आ॒यत॑नवान्भवति ...{Loading}...
विश्वास-प्रस्तुतिः
आ॒यत॑नवान्भवति ।
य ए॒वव्ँ वेद॑ ।
मूलम्
आ॒यत॑नवान्भवति ।
य ए॒वव्ँ वेद॑ ।
विश्वास-प्रस्तुतिः
यो॑ऽप्सु नावं॒ प्रति॑ष्ठिता॒व्ँ वेद॑ ।
प्रत्ये॒व ति॑ष्ठति ।
[83]
मूलम्
यो॑ऽप्सु नावं॒ प्रति॑ष्ठिता॒व्ँ वेद॑ ।
प्रत्ये॒व ति॑ष्ठति ।
[83]
भट्टभास्कर-टीका
योऽप्स्वित्यादि ॥ अप्सु कार्यत्वेन प्रतिष्ठितां नावं नेतव्यामीश्वरेण प्रेरणीयां वेद । णयतेरौणादिको डौप्रत्ययः । लोका अप्कारणाः कर्णधारस्थानीयेनेश्वरेण नेतव्याश्च । तस्मात्ते नौशब्देनोच्यन्त इति । तद् इदमर्थरूपमभिलक्ष्य एषा ऋक् पुनरुक्ता ॥९॥