आवाहयामि

गोपालदेशिकोक्त-विनियोगः

इत्य् उदकाञ्जलिना गङ्गाम् आवाह्य (इति सम्प्रार्थ्य),
उदकाञ्जलिम् आदाय

विश्वास-प्रस्तुतिः

आवाहयामि त्वां देवि
स्नानार्थम् इह सुन्दरि ।
एहि गङ्गे नमस् तुभ्यं
सर्वतीर्थ-समन्विते ॥

मूलम्

आवाहयामि त्वां देवि
स्नानार्थम् इह सुन्दरि ।
एहि गङ्गे नमस् तुभ्यं
सर्वतीर्थ-समन्विते ॥


गोपालदेशिकोक्त-विनियोगः

इत्य् अर्घ्यं दत्वा,


इत्युदकाञ्जलिनार्घ्यं दत्वा ।

विश्वास-प्रस्तुतिः

विष्णु-वाम-पदाङ्गुष्ठ-
नख-स्रोतो-विनिस्सृते ।
तद्-भक्ति-विघ्न-रूपात् त्वं
गङ्गे मां मोचयैनसः

मूलम्

विष्णु-वाम-पदाङ्गुष्ठ-
नख-स्रोतो-विनिस्सृते ।
तद्-भक्ति-विघ्न-रूपात् त्वं
गङ्गे मां मोचयैनसः