को वः पश्चात् प्राविच्छायत्(?)
कः पुरः प्राखनत्पथः।
यदैत त्वरमाणा वरुणप्रसूता आपः ।॥१ ।।(५)
प्रजापतिर् असृजत
स पुरः प्राखनत्पथः ।
स उ नो अन्ववासृजत्
तेन सृष्टाः क्षरामसि ।। २ ।।
पुनाना आपो बहुधा श्रवन्ती
+इमांश्च लोकान् प्रदिशश्च सर्वाः ।
पुनन्त्वस्मान् दुरिताद् अवद्यान्
मुञ्चन्तु मृत्योर् निर्ऋतेरुपस्थात् ।।३।।(५)
अपो अस्मान् मातरः सूदयन्तु(=स्रावयन्तु)
घृतेन नो घृतपुवः(=घृतपावक्यः?) पुनन्तु ।
विश्वं हि रिप्रं प्रवहन्ति देवीर्
उदिदाभ्यः(?) शुचिरा पूत एमि।।४।।
आपो देवीर् मातरः सूदयिष्णवो
घृतच्युतो मधुना सं पपृच्रे ।
ता अस्मभ्यं सूरयो विश्वमायुः
क्षप उस्रा(?) वरिवस्यन्तु शुभ्राः।। ५ । ।
उदकस्योदकतमा
रेवत्तमा रेवतीनाम् ।
शुन्धन्ताम् आपः
शुन्धन्त्वस्मान् ।।६ ।।
यूयमापो वीरश्रियो
यूयं सूदयथा शुचीन् ।
युष्माकमिद् दिशो महीर्
ईयन्ते प्रदिशः पृथक् ।।७।।
यूयं मित्रस्य वरुणस्य योनिर्
यूयं सोमस्य धेनवो मधिष्ठाः ।
युष्मान् देवीर् देव आ क्षियतीऽन्दुर्
यूयं जिन्वत ब्रह्मक्षत्रमापः ।।८ ।।(४)
शश्वद् आभिः शाशदानाः(?) शमनान्वयामसि ।
आपो विश्वस्य सूदनीर्
या देवा मनवे दधुः ।।९।।
यद्धावन्ति पुनते तदापो
यत्तिष्ठन्ति शुद्धा इत्तद्भवन्ति ।
नासाम् अवद्यम् अविदं न रिप्रं
सनाद्(=सदा) एव मधुना सं प्रपृच्रे ।।१०।। (४)
हिरण्यवर्णाः शुचयः पावकाः
प्र चक्रमुर् हित्वावद्यमापः ।
शतं च वः प्रस्रवणेषु देवीः
सहस्रं च पवितारः पुनन्ति ।। ११ ।।
तास् तादृशीर् ब्रह्माणं सूदयन्त्य्
अङ्गोष्ठ्या स्तोत्र्या जीवधन्याः।
या विश्वस्य शुचिकृतो अयातोर्
गाव इव पयसा स्था सुजाताः।१२।।
विश्वाद् रिप्रान् मुञ्चत सिन्धवो नो
यान्येनांसि चकृमा तनूभिः ।
इन्द्रप्रशिष्टा वरुणप्रसूता
आ सिञ्चतापो मध्वा समुद्रे ।। १३ ।। (४)