हिरण्यवर्णाश् शुचयः

03 हिरण्यवर्णाश् शुचयᳶ ...{Loading}...

हिर॑ण्यवर्णा॒श् शुच॑यᳶ पाव॒का,
यासु॑ जा॒तᳵ क॒श्यपो॒, यास्व् इन्द्रः॑ ।
अ॒ग्निय्ँ या गर्भ॑न् दधि॒रे, विरू॑पा॒स् -
ता न॒ आप॒श् शँ स्यो॒ना भ॑वन्तु

08 यासां राजा ...{Loading}...

यासाँ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑,
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
म॒धु॒श्-चुत॒श् शुच॑यो॒ याᳶ पा॑व॒कास् -
ता न॒ आप॒श् शँ स्यो॒ना भ॑वन्तु

12 यासान् देवा ...{Loading}...

यासा॑न् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षय्ँ -
या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति
याᳶ पृ॑थि॒वीम् पय॑सो॒न्दन्ति॑ शु॒क्रास् -
ता न॒ आप॒श् शँ स्यो॒ना भ॑वन्तु

16 शिवेन मा ...{Loading}...

शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापश् -
शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म् मे ।
सर्वाँ॑ अ॒ग्नीँर् अ॑प्सु॒-षदो॑ हुवे वो॒,
मयि॒ वर्चो॒ बल॒म् ओजो॒ नि ध॑त्त