आपः॑ पुनन्तु पृथि॒वीं पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् । पु॒नन्तु॒ ब्रह्म॑ण॒स्-पति॒र् ब्रह्म॑ पू॒ता पु॑नातु॒ माम् । यद् उच्छि॑ष्ट॒म् अभो॑ज्य॒य्ँ यद् वा॑ दु॒श्चरि॑तं॒ मम॑ । सर्वं॑ पुनन्तु॒ माम् आपो॑ ऽस॒ताञ् च॑ प्रति॒ग्रह॒२ꣳ॒ स्वाहा॑ ।