सुरूपकृत्नम्

सुरूपकृत्नम् ...{Loading}...

ऋक्

ऋग्वेदः १.४.१
ऋषिः मधुच्छंदा वैश्वामित्रः
देवता इंद्रः
छन्दः गायत्री

संहिता

16_0160 सुरूपकृत्नुमूतये सुदुघामिव ...{Loading}...

सु꣣रूपकृत्नु꣢मू꣣त꣡ये꣢ सु꣣दु꣡घा꣢मिव गो꣣दु꣡हे꣢। जु꣣हूम꣢सि꣣ द्य꣡वि꣢द्यवि ॥ 16:0160 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

सु॒रू॒प॒कृ॒त्नुम् (इन्द्रं) ऊ॒तये॑(=रक्षायै)
सु॒दुघा॑मिव गो॒दुहे॑ ।
जु॒हू॒मसि॒ द्यवि॑द्यवि ॥

साम


(गोपालार्यः 2015 )

रैवतऋषभम् ॥
सु([])रूपकृत्नमूतये ॥ त्रिः ॥
सु([])दुघा,म् इव गो,ओ,दूहे ।
जु([])हूमा,असाइ ।
द्या([])वि द्यवाइ ॥ द्वि: ॥
द्या([]),वी द्य,वआउ,वा([])अ।
हिं([])॥ त्रिः ॥ ७ ॥