मानसतरङ्गिणीकृत् - टिप्पनी
The R^iShi of the most glorious of stava-s is puShkara; the Chandas in anuShTup and the god of gods, indra is the devatA.
वरस् त्व् इन्द्र जितामित्र
वृत्रहन् पाकशासन ।
देव-देव महा-भाग
त्वं हि वर्धिष्णुतां गतः ।।
अनन्त-तेजो विरजो
यशो-विजय-वर्धन ।
अ-प्रभुस् त्वं प्रभुर् नित्यम्
उत्तिष्ठ सुर-पूजित ।।
ब्रह्मा स्वयम्भूर् भगवान्
सर्व-लोक-पितामहः ।
रुद्रः पिनाक-भृद् दृप्तश्
चतसृ-द्वय-संस्तुतः।।
योगस्य नेता कर्ता च
तथा विष्णुर् उरु-क्रमः ।
तेजस् ते वर्धयन्त्व् एते
नित्यम्-एव महाबलाः ।।
अनादि-निधनो देवो
ब्रह्मा स्रष्टा सनातनः ।
अग्निस् तेजोमयो भागो
रुद्रात्मा पार्वती-सुतः ।।
कार्तिकेयः शक्ति-धरः
षड्-वक्त्रश् च गदाधरः ।
शतं-वरेण्यो वरदस्
तेजो वर्धयतां विभुः ।।
देवः सेनापतिः स्कन्दः
सुर-प्रवर-पूजितः ।
आदित्या वसवो रुद्राः
साध्या देवास् तथाश्विनौ ।।
भृगुर् आङ्गिरसश् चैव
विश्वे-देवा मरुद्गणाः ।
लोक-पालास् त्रयश् चैव
चन्द्रः सूर्यो ऽनलो ऽनिलः ।।
देवाश् च ऋषयश् चैव
यक्ष गन्धर्व राक्षसाः ।।
समुद्रा गिरयश् चैव
नद्यो भूतानि यानि च ।।
तेजस् तपांसि सत्यं च
लक्ष्मीः श्रीः कीर्तिर् एव च ।
प्रवर्धयतु तत् तेजो
जय शक्र शचीपते ।।
तव चापि जयान् नित्यं
त्व् इह संपद्यते शुभं ।
प्रसीद राज्ञां विप्राणां
प्राणिनामपि सर्वशः ।।
तव प्रसादात् पृथिवी
नित्यं सस्यवती भवेत् ।
शिवं भवतु निर्विघ्नं
शम्यताम् ईतयो भृशं ।।
नमस् ते देव देवेश
नमस् ते वल-सूदन ।
नमुचि-घ्न नमस् ते ऽस्तु
सहस्राक्ष शचीपते ।।
सर्वेषाम् एव लोकानां
त्वम् एका परमा गतिः ।
त्वम् एव परमः प्राणः
सर्वस्यास्य जगत्-पते ।।
पाशो ह्य् असि पथः स्रष्टुं
त्वं अनल्पं पुरन्दर ।
त्वम् एव मेघस् त्वं वायुस्
त्वं अग्निर् वैद्युतो ऽम्बरे ।।
त्वम् अत्र मेधावि-क्षिप्ता(??)
त्वम् मे बाहुः प्रतर्दन ।
वज्रम् अतुलं घोरं(??)
घोषवांस् त्वं बलाहकः ।।
स्रष्टा त्वम् एव लोकानां
संहर्ता चापरजितः ।
त्वं ज्योतिः सर्व-लोकानां
त्वम् आदित्यो विभावसुः ।।
त्वं महद् भूतम् आश्चर्यं
त्वं राजा त्वं सुरोत्तमः ।
त्वं विष्णुस् त्वं सहस्राक्षस्
(???) त्वं परायणं ।।
त्वम् एव चामृतं देवस्
त्वं मोक्षः परमार्चितः ।
त्वं मुहूर्तः स्थितिस् त्वं च
लवस् त्वं च पुनः क्षणः ।
शुक्लस् त्वं बहुलश् चैव
कला काष्ठा त्रुटिस् तथा ।।
संवत्सरर्तवो मासा
रजन्यश् च दिनानि च ।
त्वम् उत्तमा स-गिरिचरा(??)
वसुं-धरा स-भास्करं तिमिरंबरं(??) तथा ।।
सहोदधिः स-तिमिङ्गिलस् तथा
सहोर्मिवान् बहु-मकरो झषा-कुलः ।
महद्-दशास् त्वम् इह सदा च पूज्यसे
महर्षिभिर् मुदित-मना महर्षिभिः (??)।।
अभिष्टुतः पिबसि च सोमम् अध्वरे
हुतान्य् अपि च हवींषि भूतये ।
त्वं विप्रैः सततं इहेज्यसे फलार्थं
भेदार्थेष्व् अष्टसु बलौघ गीयसे त्वं ।।
त्वद्-हेतोर् यजन-पारायणा द्विजेन्द्रा
वेदाङ्गान्य् अधि-गमयन्ति सर्व-वेदैः ।
वज्रस्य भर्ता भुवनस्य गोप्ता
वृत्रस्य हर्ता नमुचेर् निहन्ता ।।
कृष्णे वसानो वसने महात्मा
सत्यानृते यो विविनक्ति लोके ।
यं वाजिनं गर्भम् अपाम् सुराणां
वैश्वानरं वाहनम्-अभ्युपैति ।।
नमः सदाऽस्मै त्रिदिवेश्वराय
लोकत्रयेशाय पुरन्दराय ।
अजोऽव्ययः शाश्वत एक-रूपो
विष्णुर् वराहः पुरुषः पुराणः ।।
त्वम् अन्तकः सर्व-हरः कृशानुः
सहस्रशीर्षा शत-मन्युर् ईड्यः ।
कविं सप्त-जिह्वं त्रातारम्
इन्द्रं सवितारं सुरेशं ।।
हृद्याभि-शक्रं वृत्र-हणं सुषेणम्
अस्माकं वीरा उत्तरे भवन्तु ।
त्रातारम् इन्द्रेन्द्रिय-कारणात्मञ्
जगत्-प्रधानं च हिरण्य-गर्भं ।।
लोकेश्वरं देव-वरं वरेण्यं
चानन्द-रूपं प्रणतोस्मि नित्यं ।