त्वे सु पुत्र

१४ त्वे सु ...{Loading}...

त्वे᳓ सु᳓ पुत्त्र +++(आमन्त्रिताङ्गत्वाद् अनुदात्तः←)+++शवसो᳓
ऽवृत्रन् +++(=अवर्तन्त)+++ का᳓म-कातयः +++(=काम-कामनाः [सुतयः])+++ ।
न᳓ त्वा᳓म् इन्द्रा᳓ति रिच्यते ।।

०२ उक्थौक्थे सोम ...{Loading}...

उक्थ᳓उक्थे सो᳓म इ᳓न्द्रं ममाद
नीथे᳓नीथे +++(समाप्ते समाप्ते)+++ मघ᳓वानँ सुता᳓सः ।
य᳓द् ईँ᳓ सबा᳓धः पित᳓रं न᳓ पुत्राः᳓
समान᳓-दक्षा +++(=समानबलाः)+++ अ᳓वसे ह᳓वन्ते ।