०१ तत्त इन्द्रियं ...{Loading}...
त᳓त्त इंद्रियं᳓+++(=बलं)+++ परमं᳓ पराचै᳓र् +++(=पराञ्चनैः)+++
अ᳓धारयन्त कव᳓यः पुरे᳓दं᳓ ।
+++(अग्निरूपेण)+++ क्षमे᳓द᳓म्+++(=क्षमायामिदं)+++ अ᳓न्य᳓द् दिव्य् अ᳓१᳓न्य᳓दस्य +++(ज्योतिः)+++
स᳓म् ईं पृच्यते समने᳓+++(=सङ्ग्रामे)+++व केतुः᳓ ॥१
०२ स धारयत्पृथिवीं ...{Loading}...
+++(रात्रावादित्योऽग्निना संयुक्तो भवति ।)+++
स᳓ धारयत् पृथिवीं᳓ पप्र᳓थच्+++(=पृथुमकरोत्)+++ च
व᳓ज्रेण हत्वा᳓ नि᳓र् अपः᳓ ससर्ज ।
अ᳓हन्न् +++(मेघरूपम् शुष्णं वा)+++ अ᳓हिम् अ᳓भिनद् रौहिणं᳓
व्य᳓हन् व्यं᳙सं+++(=विभुजम्)+++ मघ᳓वा+++(=धनवान्)+++ श᳓चीभिः+++(=युद्धकर्मभिः)+++ ॥२
०३ स जातूभर्मा ...{Loading}...
स᳓ जातू᳓+++(=अशनी, जान् तूर्वतीति।)+++भर्मा+++(=आयुधः)+++ श्रद्द᳓धान
ओ᳓जः पु᳓रो+++(=पुराणि)+++ विभिंद᳓न्न् अचरद् वि᳓ दा᳓सीः+++(=दस्युसंबन्धीन्यः)+++ ।
विद्वा᳓न् वज्रिन् द᳓स्यवे+++(=उपक्षयकारिणे)+++ हेति᳓म् +++(विसृज)+++
अस्या᳓ऽऽर्यं स᳓हो वर्धया द्युम्न᳓म् इ᳓न्द्र᳓ ॥३
०४ तदूचुषे मानुषेमा ...{Loading}...
त᳓द् +++(इन्द्रबलम्)+++ ऊचु᳓षे+++(=उक्तवते)+++ मा᳓नुषेमा᳓+++(नि)+++ युगा᳓नि
कीर्ते᳓न्यं+++(=कीर्तनीयं)+++ मघ᳓वा ना᳓म बि᳓भ्रत् ।
उपप्रय᳓न् दस्युह᳓त्याय वज्री᳓ +++(इति नामान्तरम्)+++
य᳓द् +ह सूनुः᳓ श्र᳓वसे+++(=यशसे)+++ ना᳓म दधे᳓ ॥४
०५ तदस्येदं पश्यता ...{Loading}...
त᳓दस्येदं᳓ पश्यता+++(त)+++ भू᳓रि पुष्टं᳓
श्र᳓द् इ᳓न्द्रस्य धत्तन+++(=दधत)+++ वीर्या᳙य ।
स᳓ +++(अपहृताः?)+++ गा᳓ अविन्दत् सो᳓ अविन्दद् अ᳓श्वान्त्
स᳓ ओ᳓षधीः सो᳓ +++(शुष्ण/मेघरुद्धाः)+++ अपः᳓ स᳓ व᳓नानि+++(=वननीयानि)+++ ॥५ +++(५)+++
०६ भूरिकर्मणे वृषभाय ...{Loading}...
भू᳓रिकर्मणे वृषभा᳓य वृ᳓ष्णे+++(=वर्षकाय)+++
सत्य᳓-शुष्माय+++(=बलाय)+++ सुनवाम सो᳓मं ।
य᳓ आदृ᳓त्या परिपन्थी᳓+++(=मार्गनिरोधकश्चोर)+++व शू᳓रो᳓
ऽयज्वनो विभ᳓जन्न् ए᳓ति वे᳓दः+++(=धनम्)+++ ॥६
०७ तदिन्द्र प्रेव ...{Loading}...
त᳓दिन्द्र प्रे᳓व वीर्यं᳙ चकर्थ
य᳓त् सस᳓न्तं+++(=स्वपन्तं सकारवादिनं?)+++ व᳓ज्रेणा᳓बोधयो᳓ ऽहिम् ।
अ᳓नु त्वा प᳓त्नीर् हृषितं᳓ व᳓यश्च+++(=गमनशीला [मरुतः])+++
वि᳓श्वे देवा᳓सो अमदन्न् अ᳓नु त्वा+++(म्)+++ ॥
०८ शुष्णं पिप्रुं ...{Loading}...
शु᳓ष्णं+++(=शोषकम् [मेघाहिरूपम् असुरं])+++ पि᳓प्रुं +++(=बहुपुरो दस्युः)+++ कु᳓यवं +++(=धान्यनाशकः)+++ वृत्र᳓म्
इन्द्र यदा᳓वधीर्वि᳓ पु᳓रः श᳓म्बरस्य ।
त᳓न् नो मित्रो᳓ व᳓रुणो मामहन्ताम् +++(=पूजितं कुर्वन्तु)+++
अ᳓दितिः सि᳓न्धुः पृथिवी᳓ उत᳓ द्यौः᳓॥