विस्तारः (द्रष्टुं नोद्यम्)
- भट्टभास्करो ऽत्र।
- “सर्वत्रोपाँशुप्रभृति वाचस्थानानाँ स्वराक्षरपर्भिदवृत्तभ्रेषेष्व् “आभिर्गीर्भिर्यदतो न ऊनमि"त्येतया स्रुवाहुतिं जुहुयात्।” इत्यापस्तम्बः।
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒भिर् गी॒र्भिर् यद् अतो॑ न ऊ॒नम्
आप्या॑यय हरिवो॒ +++(=अश्ववान्, स्वर्णवान् वा [इन्द्रः])+++ वर्द्ध॑मानः।
य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा +++(=मेघान्)+++ रु॒जासि॑ +++(=भिनक्षि)+++
भूयिष्ठ॒भाजो॒ अध॑+++(=अत)+++ ते स्याम॥