सु॒प॒र्णो॑ऽसि ...{Loading}...
सायणोक्त-विनियोगः
कल्पः— “सुपर्णोऽसि गरुत्मान् इत्य् उख्यम् अवेक्षते” इति।
मूलम् (संयुक्तम्)
सु॒प॒र्णो॑ऽसि ग॒रुत्मा॑न्त्रि॒वृत्ते॒ शिरो॑ गाय॒त्रञ्चक्षु॒स्स्तोम॑ आ॒त्मा साम॑ ते त॒नूर्वा॑मदे॒व्यम्बृ॑हद्रथन्त॒रे प॒क्षौ य॑ज्ञाय॒ज्ञिय॒म्पुच्छ॒ञ्छन्दाँ॒स्यङ्गा॑नि॒ धिष्णि॑याश्श॒फा यजूँ॑षि॒ नाम॑ ।
विश्वास-प्रस्तुतिः
सु॒प॒र्णो॑ऽसि ग॒रुत्मा॑न् ,
त्रि॒वृत् +++(स्तोमविशेषः)+++ ते॒ शिरो॑,
गाय॒त्रं +++(साम)+++ चक्षुः॒, स्तोम॑ आ॒त्मा।
साम॑ ते त॒नूर् वा॑+++(म)+++दे॒व्यम्, बृ॑हद्-रथन्त॒रे प॒क्षौ,
य॑ज्ञाय॒ज्ञिय॒म् पुच्छं॒, छन्दाँ॒स्य् अङ्गा॑नि॒,
धिष्णि॑याः+++(=धिष्ण्याग्निभ्यो मृच्-चितयः)+++ श॒फा,
यजूँ॑षि॒ नाम॑ ।
मूलम्
सु॒प॒र्णो॑ऽसि ग॒रुत्मा॑न् , त्रि॒वृत्ते॒ शिरो॑ गाय॒त्रञ्चक्षु॒स् स्तोम॑ आ॒त्मा साम॑ ते त॒नूर्वा॑मदे॒व्यम् बृ॑हद्रथन्त॒रे प॒क्षौ, य॑ज्ञाय॒ज्ञिय॒म्पुच्छ॒ञ्, छन्दाँ॒स्यङ्गा॑नि॒, धिष्णि॑याश्श॒फा, यजूँ॑षि॒ नाम॑ ।
सायण-टीका
पाठस्तु— सुपर्णोऽसि गरुत्मानिति । हेऽग्ने त्वं सुपर्णः पक्षिरूपोऽसि। पक्ष्याकारेण चेष्यमाणत्वात् । अत एवाऽऽम्नायते—‘वयसां वा एष प्रतिमया चीयते यदग्निः” इति । तत्र दृष्टान्तः—यथा गरुत्मान्पक्षिराजस्तद्वत्। पक्ष्याकारस्यावयवाः संप (पा) द्यन्ते त्रिवृत्ते शिरो बहिष्पवमानस्तोत्रे योऽयं त्रिवृत्स्तोमः स एव स्तोमस्तव शिर-स्थानीयः । प्रजापतिमुखजन्यत्वेनोक्तत्वात्।
यद्रायत्राख्यं साम तच्छिदीयं चक्षुः।
यः पञ्चदशादिस्तोमस्तव स जीवात्मा ।
यद्गायदेव्यं साम तच्छिरोव्यतिरिक्ततनुस्थानीयम्।
ये बृहद्रथंतराख्ये सामनी ते तव पक्षस्थानीये ।
यद्यज्ञायज्ञियाख्यं साम तत्तव पुच्छस्थानीयम् ।
यानि गायत्र्यादीनि च्छन्दांसि तानि हृदयाद्यङ्गस्थानीयानि ।
ये सौमिकवेद्यां होत्रियादिधिष्णियास्ते तव शफस्थानीयाः।
यानि यजूंषि तानि तव नामस्थानीयानि। एतं मन्त्रं विनियुङ्क्ते— ‘सुपर्णोऽसि गरुत्मानित्यवेक्षते रूपमेवास्यैतन्महिमानं व्याचष्टे’ (सं. का. ५ प्र. १ अ. १०) इति।
अवेक्षते, उख्यमिति शेषः। मन्त्रस्वरूपेणैवार्थप्रतीतेर्नात्र पृथग्व्याख्यात-व्यमस्ति ।
विश्वास-प्रस्तुतिः
सु॒प॒र्णो॑ऽसि ग॒रुत्मा॒न् ,
मूलम्
सु॒प॒र्णो॑ऽसि ग॒रुत्मा॒न् ,
सायण-टीका
कल्पः—‘सुपर्णोऽसि गरुत्मानित्यादायोत्थाय’ इति। पाठस्तु— सुपर्णोऽसि गरुत्मानिति। हेऽग्ने त्वं गरुड इव पक्षिरूपोऽसि ।
विश्वास-प्रस्तुतिः
दिव॑ङ्गच्छ॒ सुवᳶ॑ पत ॥ [42]
मूलम्
दिव॑ङ्गच्छ॒ सुवᳶ॑ पत ॥ [42]
सायण-टीका
अत आकाशं प्रति गच्छ । ततोऽपि स्वर्गलोकं प्राप्नुहि । मन्त्रस्य स्वर्गप्राप्तिपरत्वं दर्शयति— “दिवं गच्छ सुवः पतेत्याह सुवर्गमेवैनं लोकं गमयति’ (सं. का. ५ प्र. १ अ. १०) इति । एवं यजमानमात्मानम्।
अत्र विनियोगसंग्रहः —
यदग्ने पञ्चभिः काष्ठं वन्हावोदुम्बरं क्षिपेत् ॥
१८५१ दँष्ट्राऽऽश्वत्थीमादधाती ये ज वैकङ्कर्तों॑ तथा ॥
यो अस्मभ्यं शमीकाष्ठं संशितद्वयवाचनम् ।
दृशा रुक्मं निजे कण्ठे बद्ध्वा विश्वेतिमन्त्रतः ॥
साग्न्युखाशिक्यपाशं तु स्वाम्यत्र प्रतिमुञ्चते ।
नक्तोऽजिनं चोपरिष्टात्सुपर्णोऽग्निमवेक्षते ।
सुपर्णः साग्निरुत्तिष्ठेन्मन्त्राः पञ्चदशेरिताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके दशमोऽनुवाकः ॥ १० ॥