गरुडपञ्चाशत्

गरुडपञ्चाशत्स्तोत्रम् वेदान्तदेशिककृतम् ।

१। परव्यूहवर्णकः

अङ्गेष्व् आनन्द-मुख्य–{श्रुति-शिखर}+++(=ॐ)+++-मिलद्–दण्डकं+++(=“नमः”)+++ गण्ड+++(→“गरुडाय”)+++पूर्वं
प्राग् एवाभ्यस्य, षट्सु;; प्रतिदिशम् अनघं;; न्यस्त-शुद्धास्त्र-बन्धाः ।
पक्षि-{व्यत्यस्त-पक्षि}–द्वितय-मुखपुट–प्रस्फुटोदार-तारं+++(=प्रणवं)+++
मन्त्रं गारुत्मतं तं;; हुतवह-दयिता–शेखरं शीलयामः +++(क्षिप ॐ स्वाहेति)+++ ॥ १॥

वेदः स्वार्थाधिरूढो;; बहिर् अबहिर् अभि–व्यक्तिम् अभ्येति यस्यां
सिद्धिः साङ्कर्षणी सा;; परिणमति यया +++(ब्रह्मविद्या)+++;; सापवर्ग-त्रिवर्गा +++(सिद्धिः)+++।
प्राणस्य प्राणम् अन्ये;; प्रणिहित-मनसो;; यत्र निर्धारयन्ति
प्राची सा ब्रह्मविद्या;; परिचित-गहना;; पातु गारुत्मती नः ॥ २॥

[यजुर् अत्रानुसन्धेयम्।]
नेत्रं गायत्रम् ऊचे;; त्रिवृद् इति च शिरो;; नामधेयं यजूंषि
छन्दांस्य् अङ्गानि, धिष्ण्या–ऽऽत्मभिर् अजनि शफैर्;; विग्रहो वामदेव्यम् ।
यस्य स्तोमात्मनोऽसौ;; बृहद्-इतर-गरुत्;; तादृशाम्नाय+++(→यज्ञायज्ञिय)+++-पुच्छः
स्वाच्छन्द्यं नः प्रसूतां;; श्रुति-शत-शिखरा–ऽऽभिष्टुतात्मा गरुत्मान् ॥ ३॥

यो यं धत्ते स्वनिष्ठं +++(→गरुडो विष्णुं, विष्णुर् गरुडध्वजम्)+++;; वहनम् अपि वरः +++(अमृताहरणसन्दर्भे वरविनिमये)+++;; स्पर्शितो येन यस्मै
यस्माद् यस्याहवश्रीर् +++(गरुडाद् विष्णोः, विष्णोर् गरुडस्य)+++;; विदधति भजनं;; यत्र यत्रेति सन्तः ।
प्रायो देवः स इत्थं;; हरि-गरुड-भिदा कल्पितारोह-वाह-
स्वाभाव्यः स्वात्मभव्यः;; प्रदिशतु शकुनिर्;; ब्रह्म-सब्रह्मतां नः ॥ ४॥+++(5)+++

एको, विष्णोर् द्वितीयस्;; त्रि-चतुर्-अविदितं;; पञ्चवर्णी+++(मन्त्र)+++-रहस्यं
+++(भगवत्)+++षाड्-गुण्य-स्मेर-{सप्त–स्वर-गतिर्} अणिमाद्य्–अष्ट-सम्पन् नवात्मा+++(→नूत्नात्मा)+++ ।
+++(षाड्-गुण्यं→ज्ञानं शक्तिर् बलम् ऐश्वर्यं वीर्यं तेजः)+++
+++(अष्टसिद्धयः→अणिमा महिमा लघिमा गरिमा प्राप्तिः प्राकाम्यं ईशत्वं वशित्वम्)+++
देवो दर्वीकरारिर्;; दश-शत-नयनाऽऽराति-साहस्र-लक्षैर्
विक्रीडत्-पक्ष-कोटिर्;; विघटयतु भयं;; वीतसङ्ख्योदयो नः ॥ ५॥+++(4)+++

सत्याद्यैः +++(→सत्य-सुपर्ण-गरुड-तार्क्ष्य-विहगेश्वरैः)+++ सात्वतादि–प्रथित-महिमभिः;; पञ्चभिर् व्यूह-भेदैः +++(नारायणसहित-वासुदेवादि-चतुर्व्यूह-वाहनानि)+++
पञ्चाभिख्यो निरुन्धन्;; भव-गरल-भवं;; प्राणिनां +++(प्र)+++पञ्च+++(भूत)+++भावम् ।
प्राणापानादि भेदात्;; प्रतितनु मरुतो;; दैवतं पञ्चवृत्तेः
पञ्चात्मा पञ्चधाऽसौ पुरुष उपनिषद्घोषितस्तोषयेन्नः ॥ ६॥
+++(अत्र श्लेषेण विष्णोर् अपि स्तुतिः।)+++

श्लिष्यद्-भोगीन्द्र-भोगे;; श्रुति-निकर-निधौ;; मूर्ति-भेदे स्वकीये +++(विहगेश्वराख्ये)+++
वर्ण-व्यक्तीर् विचित्राः;; परिकलयति यो;; वक्त्र-बाहूरुपादैः ।
प्राणः सर्वस्य जन्तोः;; प्रकटित-परम–ब्रह्मभावः स इत्थं
क्लेशं छिन्दन् खगेशः;; सपदि विपदि नः;; सन्निधिः सन्निधत्ताम् ॥ ७॥
+++(अत्र श्लेषेण विष्णोर् अपि स्तुतिः।)+++

अग्रे तिष्ठन्न् उदग्रो;; मणि-मुकुर+++(=शब्द)+++ इवा–ऽनन्य-दृष्टेर् मुरारेः +++(→अग्रे)+++
पायान् माया-भुजङ्गी–विषम-विष-भयाद्;; गाढम् अस्मान् गरुत्मान् ।
क्षुभ्यत्-क्षीराब्धि-पाथः–सह-भव-गरल–स्पर्श-शङ्की स शङ्के
छायां धत्ते यदीयां+++(→गरुडस्य)+++;; हृदि हरि-हृदयाऽऽरोह-धन्यो मणीन्द्रः ॥ ८॥+++(5)+++

२। अमृतहरणवर्णकः ।

आहर्तारं सुधाया;; दुरधिगम-महा–चक्र-दुर्ग-स्थितायाः
जेतारं वज्रपाणेः;; सह विबुध-गणैर्;; आहवे बाहु-वेगात् ।
विष्णौ सम्प्रीयमाणे;; वर-विनिमयतो;; विश्व-विख्यात-कीर्तिं
देवं याऽसूत साऽसौ;; दिशतु भगवती;; शर्म दाक्षायणी नः ॥ ९॥

वित्रासाद् वीति-होत्रं;; प्रथमम् अधिगतैर्;; अन्तिके, मन्द-धाम्ना
भूयस् तेनैव +++(अग्निना)+++ सार्धं;; भय-भर-तरलैर्;; वन्दितो देव-वृन्दैः ।
कल्पान्त-क्षोभ-दक्षं;; कथम् अपि कृपया;; सङ्क्षिपन् धाम चण्डं
भित्त्वाऽण्डं निर्जिहानो+++(=उज्जिगमिषन्)+++;; भव-भयम् इह नः;; खण्डयत्व् अण्डजेन्द्रः ॥ १०॥

क्षुण्ण-क्षोणी-धराणि;; क्षुभित-चतुर्-अकूपार-तिम्य्-अद्-गरुन्ति
त्रुट्यत्-तारा-सराणि+++(=सूत्राणि)+++;; स्थपुटित+++(=निम्नोन्नतीकृत)+++-विबुध–स्थानकानि क्षिपेयुः ।
पाताल-ब्रह्म-सौधाव्;; अधि-विहित-मुधा–वर्तनान्य् अस्मद् आर्तिं
ब्रह्माण्डस्यान्तराले;; बृहति खगपतेर्;; अर्भक-क्रीडितानि ॥ ११॥

संविच्-छस्त्रं दिशन्त्या;; सह विजय-चमूर्;; +++(इव)+++ आशिषः प्रेषयन्त्या
सम्बध्नन्त्या तनुत्रं;; +++(इव)+++ सुचरितम्, अशनं;; पक्कणं+++(=नीचं)+++ निर्दिशन्त्या ।
एनो ऽस्मद् वैनतेयो;; नुदतु विनतया;; क्लृप्त-रक्षा-विशेषः
कद्रू-सङ्केत-दास्य–क्षपण+++(←क्षै क्षये)+++-पण-सुधा–लक्ष-भैक्षं जिघृक्षुः ॥ १२॥+++(5)+++

विक्षेपैः पक्षतीनाम्;; अनिभृत-गतिभिर्;; वादित-व्योम-तूर्यो
+++(पक्षक्षेपकृत-)+++वाचालाम्भोधि-वीची–वलय-विरचिताऽऽलोक+++(=जयकार)+++-शब्दानुबन्धः ।
दिक्-कन्या कीर्यमाण–क्षरद्-उडु-निकर–व्याज-लाजाभिषेको
नाकोन्माथाय गच्छन्;; नरकम् अपि समये;; +++(नाकसशब्द-)+++नाग-हन्ता निहन्तु ॥ १३॥+++(5)+++

ऋक्षाक्ष-क्षेप-दक्षो;; मिहिर+++(=सूर्य)+++-हिमकर+++(=चन्द्र)++++उत्–ताल+++(=स्फुट/hi-fi)+++-+++(हस्त-)+++तालाऽभिघाती
वेला वाः-केलि-लोलो;; विविध-घन-घटा–कन्दुकाऽऽघात-शीलाः ।
पायान् नः पातकेभ्यः;; पतग-कुलपतेः;; पक्ष-विक्षेप-जातो
वातः पाताल-हेला–पटह-पट-रवा-ऽऽरम्भ-संरम्भ-धीरः ॥ १४॥+++(5)+++

किं निर्घातः+++(=घनशब्दः)+++, किम् अर्कः;; परि-पतति दिवः;; किं समिद्धोऽयम् और्वः
किंस्वित् कार्तस्वराद्रिर्+++(=हेमाद्रिः)+++;; ननु विदितम् इदं;; व्योम-वर्त्मा गरुत्मान् ।
आसीदत्य्, आजिहीर्षत्य्;; अभिपतति, हरत्य्;; अत्ति, हा तात, हाम्बेत्य्
आलापोद्युक्त-भिल्ल+++(=व्याध)++++आकुल-जठर-पुटः;; पातु नः पत्रिनाथः ॥ १५॥

आसृक्व+++(=आमुखान्त)++++आक्तैर् असृग्भिर्;; दुर्-उपरम-तृषा–शातनी शातदंष्ट्रा-
कोटी-लोटत्-करोटी+++(=कपाल)+++–विकट-कट-कटा–राव-घोरावतारा ।
भिन्द्यात् सार्धं पुलिन्द्या+++(=म्लेच्छ्या (ब्राह्मणपत्न्या))+++;; +++(मात्रादेशानुसारं कण्ठज्वालानुभवात्परं)+++ सपदि-परिहृत–ब्रह्म+++(=ब्राह्मण)+++का जिह्म+++(=वक्र)+++गारेः
उद्वेल्लद्-भिल्ल-पल्ली–निगरण-करणा पारणा कारणां+++(=व्यथां)+++ नः ॥ १६॥

स्वच्छन्दस्वर्गिवृन्दप्रथमतममहोत्पातनिर्घातघोरः
स्वान्तध्वान्तं निरुन्ध्याद्धुतधरणिपयोराशिराशीविषारेः ।
प्रत्युद्यद्भिल्लपल्लीभटरुधिरसरिल्लोलकल्लोलमाला-
हाला निर्वेशहेला हलहलबहुलो हर्षकोलाहलो नः ॥ १७॥

सान्द्रक्रोधानुबन्धात्सरसि नखमुखे पादपे गण्डशैले
तुण्डाग्रे कण्ठरन्ध्रे तदनु च जठरे निर्विशेषं युयुत्सू ।
अव्यादस्मानभव्यादविदितनखरश्रेणिदंष्ट्रानिवेशौ
जीवग्राहं गृहीत्वा कमठकरटिनौ भक्षयन् पक्षिमल्लः ॥ १८॥

अल्पः कल्पान्तलीलानटमकुटसुधासूतिखण्डो बहूनां
निःसारस्त्वद्भुजाद्रेरनुभवतु मुदा मन्थनं त्वेष सिन्धुः ।
राकाचन्द्रस्तु राहोः स्वमिति कथयतः प्रेक्ष्य कद्रूकुमारान्
सान्तर्हासं खगेन्द्रः सपदि हृतसुधस्त्रायतामायतान्नः ॥ १९॥

आरादभ्युत्थितैरावतममितजवोदञ्चदुच्चैःश्रवस्कं
जातक्षोभं निमथ्नन् दिशि दिशि दिविषद्वाहिनीशं क्षणेन ।
भ्राम्यन्सव्यापसव्यं सुमहति मिषति स्वर्गिसार्थे सुधार्थं
प्रेङ्खन्नेत्रः श्रियं नः प्रकटयतु चिरं पक्षवान्मन्थशैलः ॥ २०॥

अस्थानेषु ग्रहाणामनियतविहितानन्तवक्रातिचारा
विश्वोपाधिव्यवस्था विगमविलुलितप्रागवागादिभेदाः ।
द्वित्राः सुत्रामभक्तग्रहकलहविधावण्डजेन्द्रस्य चण्डाः
पक्षोत्क्षेपा विपक्षक्षपणसरभसाः शर्म मे निर्मिमीरन् ॥ २१॥

तत्तत्प्रत्यर्थि सारावधि विहितमृषा रोषगन्धो रुषान्धैः
एकः क्रीडन्ननेकैः सुरपतिसुभटैरक्षतो रक्षतान्नः ।
अन्योन्याबद्धलक्षापहरणविहितामन्दमात्सर्यतुङ्गैः
अङ्गैरेव स्वकीयैरहमहमिकया मानितो वैनतेयः ॥ २२॥

अस्तव्योमान्तमन्तर्हितनिखिलहरिन्मण्डलं चण्डभानोः
लुण्टाकैर्यैरकाण्डे जगदखिलमिदं शर्वरी वर्वरीति ।
प्रेङ्खोलत्स्वर्गगोलस्खलदुडुनिकरस्कन्धबन्धान् निरुन्धन्
रंहोभिस्तैर्मदम्हो हरतु तरलितब्रह्मसद्मा गरुत्मान् ॥ २३॥

यः स्वाङ्गे सङ्गरान्तर्गरुदनिलवस्तम्भिते जम्भशत्रौ
कुण्ठास्त्रे सन्नकण्ठं प्रणयति पवये पक्षलेशं दिदेश ।
सोऽस्माकं संविधत्तां सुरपतिपृतनाद्वन्द्वयुद्धैकमल्लो
माङ्गल्यं वालखिल्यद्विजवरतपसां कोऽपि मूर्तो विवर्तः ॥ २४॥

रुद्रान् विद्राव्य सेन्द्रान् हुतवहसहितं गन्धवाहं गृहीत्वा
कालं निष्काल्य धूत्वा निरृतिधनपतीपाशिनं क्लेशयित्वा ।
सर्पाणां छाद्मिकानाममृतमयपणप्रापणप्राप्तदर्पो
निर्बाधं क्वापि सर्पन्नपहरतु हरेरौपवाह्यो मदंहः ॥ २५॥

३। नागदमनवर्णकः
भुग्नभ्रूर्भ्रुकुटीभृद्भ्रमदमितगरुत्क्षोभितक्ष्मान्तरिक्षः
चक्राक्षो वक्रतुण्डः खरतरनखरः क्रूरदंष्ट्राकरालः ।
पायादस्मानपायाद्भयभरविगलद्दन्दशूकेन्द्रशूकः
शौरेः सङ्क्रन्दनादि प्रतिभटपृतनाक्रन्दनः स्यन्दनेन्द्रः ॥ २६॥

अर्यम्णा धुर्ययोक्त्रग्रहणभयभृता सान्त्वितोऽनूरुबन्धात्
कोदण्डज्यां जिघृक्षेदिति चकितधिया शङ्कितः शङ्करेण ।
तल्पे कल्पेत मा ते मतिरिति हरिणाऽप्यादरेणानुनीतः
पक्षीन्द्रस्त्रायतां नः फणधरमहिषीपत्रभङ्गापहारी ॥ २७॥

छायातार्क्ष्यानहीनां फणमणिमुकुरश्रेणिविस्पष्टबिम्बान्
त्राणापेक्षाधृतस्वप्रतिकृतिमनसा वीक्ष्य जातानुकम्पः ।
तेषां दृष्ट्वाऽथ चेष्टाः प्रतिगरुडगणाशङ्कया तुङ्गरोषः
सर्पन् दर्पोद्धतो नः शमयतु दुरितं सर्पसन्तानहन्ता ॥ २८॥

उच्छ्वासाकृष्टतारागणघटितमृषा मौक्तिकाकल्पशिल्पः
पक्षव्याधूतपाथोनिधिकुहरगुहागर्भदत्तावकाशः ।
दृष्टिं दंष्ट्राङ्ग्रदूतीं पृथुषु फणभृतां प्रेषयन्नुत्तमाङ्गे-
ष्वङ्गैरङ्गानि रुन्धन्नवतु पिपतिषुः पत्रिणामग्रणीर्नः ॥ २९॥

आ वेधः सौधशृङ्गादनुपरतगतेरा भुजङ्गेन्द्रलोकात्
श्रेणीबन्धं वितन्वन् क्षणपरिणमितालातपातप्रकारः ।
पायान्नः पुण्यपापप्रचयमयपुनर्गर्भकुम्भीनिपातात्
पातालस्यान्तराले बृहति खगपतेर्निर्विघातो निपातः ॥ ३०॥

प्रत्यग्राकीर्णतत्तत्फणमणिनिकरं शङ्कुला कोटिवक्रं
तुण्डाग्रं सङ्क्ष्णुवानः कुलगिरिकठिने कर्परे कूर्मभर्तुः ।
पातालक्षेत्रपक्वद्विरसनपृतनाशालि विच्छेदशाली
शैलीं नः सप्तशैली लघिमदरभसः सौतु साध्वीं सुपर्णः ॥ ३१॥

पर्यस्यत्पन्नगीनां युगपदसमयानर्भकान् गर्भकोशाद्-
ब्रह्मस्तम्बप्रकम्पव्यतिषजदखिलोदन्वदुन्निद्रघोषम् ।
चक्षुश्चक्षुः श्रुतीनां सपदि बधिरयत् पातु पत्रीश्वरस्य
क्षिप्रक्षिप्तक्षमाभृत्क्षणघटितनभः स्फोटमास्फोटितं नः ॥ ३२॥

तोयस्कन्धो न सिन्धोः समघटत मिथः पक्षविक्षेपभिन्नः
पातालं न प्रविष्टं पृथुनि च विवरे रश्मिभिस्तिग्मरश्मेः ।
तावद्ग्रस्ताहिवक्त्रक्षरितविषमषीपङ्ककस्तूरिकाङ्कः
प्रत्यायातः स्वयूथ्यैः स्थित इति विदितः पातु पत्रीश्वरो नः ॥ ३३॥

बद्धस्पर्धैरिव स्वैर्बहुभिरभिमुखैरेककण्ठं स्तुवाने
तत्तद्विश्वोपकारप्रणयिसुरगणप्रार्थितप्राणरक्षे ।
पायान्नः प्रत्यहं ते कमपि विषधरं प्रेषयामीति भीते
सन्धित्सौ सर्पराजे सकरुणमरुणानन्तरं धाम दिव्यम् ॥ ३४॥

क्वाप्यस्थ्ना शर्कराढ्यं क्वचन घनतरासृक्छटा शीधु दिग्धं
निर्मोकैः क्वापि कीर्णं विषयमपरतो मण्डितं रत्नखण्डैः ।
अध्यारूढैः स्ववारेष्वहमहमिकया वध्यवेषं दधानैः
काले खेलन् भुजङ्गैः कलयतु कुशलं काद्रवेयान्तको नः ॥ ३५॥

४। परिष्कारवर्णकः ।
वामे वैकुण्ठशय्या फणिपतिकटको वासुकिब्रह्मसूत्रो
रक्षेन्नस्तक्षकेन ग्रथितकटितटश्चारुकार्कोटहारः ।
पद्मं कर्णेऽपसव्ये प्रथिमवति महापद्ममन्यत्र बिभ्रत्
चूडायां शङ्खपालं गुलिकमपि भुजे दक्षिणे पक्षिमल्लः ॥ ३६॥

वर्त्याभ स्वस्तिकाग्रस्फुरदरुणशिखादीप्ररत्नप्रदीपैः
बध्नद्भिस्तापमन्तर्बहुलविषमषीगन्धतैलाभिपूर्णैः ।
नित्यं नीराजनार्थैर्निजफणफलकैर्घूर्णमानानि तूर्णं
भोगैरापूरयेयुर्भुजगकुलरिपोर्भूषणानीषणां नः ॥ ३७॥

अङ्गप्रत्यङ्गलीनामृतरसविसरस्पर्शलोभादिवान्तः-
त्रासाद्घ्रासानुबन्धादिव सहजमिथो वैरशङ्कोत्तरङ्गात् ।
रुद्रागाढोपगूढोच्छ्वसननिबिडितस्थानयोगादिवास्मद्-
भद्राय स्युर्भजन्तो भगवति गरुडे गाढतां गूढपादः ॥ ३८॥

कोटीरे रत्नकोटिप्रतिफलिततया नैकधा भिन्नमूर्तिः
वल्मीकस्थान् स्वयूथ्यानभित इव निजैर्वेष्टनैः क्लृप्तरक्षः ।
क्षेमं नः सौतु हेमाचलविधृतशरन्मेघलेखानुकारी
रोचिश्चूडालचूडामणिरुरगरिपोरेष चूडाभुजङ्गः ॥ ३९॥

द्राघीयः कर्णपाशद्युति परिभवनव्रीलयेव स्वभोगं
सङ्क्षिप्याश्नन् समीरं दरविनतमुखो निःश्वसन् मन्दमन्दम् ।
आसीदद्गण्डभित्तिप्रतिफलनमिषात् क्वापि गूढं विविक्षुः
क्षिप्रं दोषान् क्षिपेन्नः खगपति कुहनाकुण्डलः कुण्डलीन्द्रः ॥ ४०॥

वालाग्रग्रन्थिबन्धग्रथितपृथुशिरोरत्नसन्दर्शनीयो
मुक्ता शुभ्रोदराभो हरिमणिशकलश्रेणिदृश्येतरांशः ।
विष्वग्दम्भोलिधाराव्रणकिणविषमोत्तम्भनस्तब्धवृत्तिः
व्यालाहारस्य हृद्यो हरतु स मदघं हारदर्वीकरेन्द्रः ॥ ४१॥

वैकक्ष्यस्रग्विशेषच्छुरणपरिणमच्छस्त्रबन्धानुबन्धो
वक्षः पीठाधिरूढो भुजगदमयितुर्ब्रह्मसूत्रायमाणः ।
अश्रान्तस्वैरनिद्राविरचितविविधोच्छ्वासनिश्वासवेग-
क्षामोच्छूनाकृतिर्नः क्षपयतु दुरितं कोऽपि कद्रूकुमारः ॥ ४२॥

श्लिष्यद्रुद्रासुकीर्तिस्तनतटघुसृणालेपसङ्क्रान्तसार-
स्फारामोदाभिलाषोन्नमितपृथुफणाचक्रवालाभिरामः ।
प्रायः प्रेयः पटीरद्रुमविटपधिया श्लिष्टपक्षीन्द्रबाहुः
व्याहन्यादस्मदीयं वृजिनभरमसौ वृन्दशो दन्दशूकः ॥ ४३॥

ग्रस्तानन्तर्निविष्टान् फणिन इव शुचा गाढमाश्लिष्य दुःख्यन्
क्षुण्णानेकः स्वबन्धून् क्षुधमिव कुपितः पीडयन् वेष्टनेन ।
व्यालस्तार्क्ष्र्योदरस्थो विपुलगळगुहावाहि फूत्कारवात्या-
पौनःपुन्येन हन्यात्पुनरुदरगुहागेहवास्तव्यतां नः ॥ ४४॥

गाढासक्तो गरुत्मत्कटितटनिकटे रक्तचण्डातकाङ्के
फक्कत्काञ्चीमहिम्ना फणिमणिमहसा लोहिताङ्गो भुजङ्गः ।
सत्तासांसिद्धिकं नः सपदि बहुविधं कर्मबन्धं निरुन्ध्याद्-
विन्ध्याद्र्यालीनसन्ध्या घनघटिततटित्कान्तचातुर्यधुर्यः ॥ ४५॥

५। अद्भुतवर्णकः ।
वेगोत्तानं वितानं व्यजनमनुगुणं वैजयन्ती जयन्ती
मित्रं नित्याभ्यमित्रं युधि विजयरथो युग्ययोगानपेक्षः ।
दासो निष्पर्युदासो दनुतनयभिदो निःसहायः सहायो
दोधूयेतास्मदीयं दुरितमधरितारातिपक्षः स्वपक्षैः ॥ ४६॥

उक्षा दक्षान्तकस्य स्खलति वलजितः कुञ्जरः खञ्जरीतिः
क्लान्तो धातुः शकुन्तोऽनुग इति दयया सामिरुद्धस्यदोऽपि ।
ग्राहग्रस्तद्विपेन्द्रक्षतिभयचकिताकुण्ठवैकुण्ठचिन्ता-
नासीरोदारमूर्तिर्नरकविहतये स्याद्विहङ्गेश्वरो नः ॥ ४७॥

वेगोद्वेलः सुवेलः किमिदमिति मिथो मन्त्रतो वानरेन्द्रैः
मायामानुष्यलीलामभिनयति हरौ लब्धसेवाविशेषः ।
वैदेहीकर्णपूरस्तबकसुरभिणा यः समाश्लेषि दोष्णा
तृष्णा पारिप्लवानां स भवतु गरुडो दुःखवारिप्लवो नः ॥ ४८॥

दुग्धोदन्वत्प्रभूतः स्वकमहिमपृथुर्विष्णुना कृष्णनाम्ना
पिञ्छाकल्पानुकल्पः समघटि सुदृढो यत्प्रदिष्टः किरीटः ।
वीरो वैरोचनास्त्रव्रणकिणगुणितोदग्रनिर्घातवातः
सङ्घातं सर्वघाती स हरतु महतामस्मदत्याहितानाम् ॥ ४९॥

रुन्ध्यात्संवर्तसन्न्ध्याघनपटलकनत्पक्षविक्षेपहेला-
वातूलास्फालतूलाञ्चलनिचयतुलाधेयदैतेयलोकः ।
आस्माकैः कर्मपाकैरभिगतमहितानीकमप्रत्यनीकैः
दीव्यन् दिव्यापदानैर्दनुजविजयिनो वैजयन्ती शकुन्तः ॥ ५०॥

यत्पक्षस्था त्रिवेदी त्रिगुणजलनिधिर्लङ्घ्यते यद्गुणज्ञैः
वर्गस्त्रैवर्गिकाणां गतिमिह लभते नाथवद्यत्सनाथः ।
त्रैकाल्योपस्थितात् स त्रियुगनिधिरघादायतात् त्रायतां नः
त्रातानेकस्त्रिधाम्नस्त्रिदशरिपुचमूमोहनो वाहनेन्द्रः ॥ ५१॥

सैकां पञ्चाशतं यामतनुत विनतानन्दनं नन्दयिष्यन्
कृत्वा मौलौ तदाज्ञां कविकथकघटाकेसरी वेङ्कटेशः ।
तामेतां शीलयन्तः शमितविषधरव्याधि दैवाधिपीडाः
काङ्क्षा पौरस्त्यलाभाः कृतमितरफलैस्तार्क्ष्यकल्पा भवन्ति ॥ ५२॥

इति वेदान्तदेशिककृतं गरुडपञ्चाशत्स्तोत्रं सम्पूर्णम् ।