विरूपाक्ष-दन्ताञ्जि-ध्यानम्

विरूपाक्ष-दन्ताञ्जि-ध्यानम् ...{Loading}...

ॐ तपश् च तेजश् च सत्यं चात्मा च धृतिश् च धर्मश् च सत्त्वं च त्यागश् च ब्रह्मा च ब्रह्म च -
तानि प्रपद्ये। तानि माम् अवन्तु।
भूर् भुवः स्वर् ॐ।
महान्तम् आत्मानम् अध्यारोहामि।
विरूपाक्षोऽसि दन्ताञ्जिस्;
तस्य ते शय्या पर्णे, गृहा अन्तरिक्षे, ते विमितं+++(=विमानम् → अपरिच्छिन्नम्)+++ हिरण्मयम्।
तद्+++(→तस्माद्)+++ देवानां हृदयान्य् अयस्मये कुम्भे अन्तः सन्निहितानि तानि।
बलभूश् च बलधा च - रक्ष णो मा प्रमदः।
सत्यं ते द्वादश पुत्रास् - ते त्वा संवत्सरे-संवत्सरे कामप्रेण+++(=काम-पूरकेण)+++ यज्ञेन याजयित्वा पुनर् ब्रह्मचर्यम् उपयन्ति।
त्वं देवानां ब्राह्मणोऽस्य्, अहं मनुष्याणाम्।
ब्राह्मणो वै ब्राह्मणम् उपधावति। तं त्वोपधावामि।
जपन्तं मा मा प्रतिजाप्सीर्, जुह्वन्तं मा मा प्रतिहौषीः।
कुर्वन्तं मा मा प्रतिकार्षीस् - त्वां प्रपद्ये।
त्वया प्रसूत इदं कर्म करिष्यामि। तन् मे समृध्यताम्!
विरूपाक्षाय दन्ताञ्जये ब्रह्मणः पुत्राय ज्येष्ठाय श्रेष्ठायामोघाय कर्माधिपतये नमः।