सुभाषितरत्नभाण्डागारः

02 गणेशः ...{Loading}...

वन्दे वन्दारु+++(=भक्त)+++-मन्दारम्
इन्दु-भूषण-नन्दनम्।
अमन्दानन्द-सन्दोह-
बन्धुरं सिन्धुराननम्॥ 1 ॥

आलम्बे जगदालम्बे
हेरम्ब-चरणाऽम्बुजे।
शुष्यन्ति यद्-रजःस्पर्शात्
सद्यः प्रत्यूह-वार्धयः1॥ 2 ॥

गजाननाय महसे
प्रत्यूह-तिमिर-च्छिदे।
अपार-करुणापूर-
तरङ्गित-दृशे नमः॥ 3 ॥

नमस् तस्मै गणेशाय
यत्-कण्ठः पुष्करायते+++(=मृदङ्गवद् आचरति)+++।
मदाभोग-घन-ध्वानो+++(=ध्वनिः)+++
नील-कण्ठस्य ताण्डवे॥ 4 ॥+++(4)+++

अगजानन-पद्मार्कं
गजाननम् अहर्निशम्।
अनेकदं तं भक्तानाम्
एकदन्तम् उपास्महे॥ 5 ॥

चलत्-कर्णानिलोद्धूत-
सिन्दूरारुणिताम्बरः।
जयत्य् अकालेऽपि सृजन्
सन्ध्याम् इव गजाननः॥ 6 ॥

एक-दन्त-द्युति-सितः
शम्भोः सूनुः श्रियेऽस्तु वः।
विद्या-कन्द इवोद्भिन्न-
नवाङ्कुर-मनोहरः॥ 7 ॥+++(5)+++

अभिप्रेतार्थ-सिद्ध्य्-अर्थं
पूजितो यः सुरैर् अपि।
सर्व-विघ्न-च्छिदे तस्मै
गणाधिपतये नमः॥ 8 ॥

दुरित-समूह-बलाहक-
पटली-संहरण-पवमानम्।
शिवयोर् अङ्काभरणं
वन्दे किञ्चिद् गजाननं तेजः॥ 9 ॥+++(5)+++

अविरल-विगलन्-मदजल-
कपोल-पाली-निलीन-मधुप-कुलः।
उद्भिन्न-नव-श्मश्रु-श्रेणिर्
इव द्विप-मुखो जयति॥ 10 ॥+++(5)+++

एक-रद +++(पार्वतीगङ्गाभ्यां)+++ द्वैमातुर
निस्त्रिगुण चतुर्-भुजोऽपि पञ्चकर।
जय षण्-मुख–नुत सप्त-
च्छद-गन्धि-मदाऽष्ट-तनुतनय॥ 11 ॥

मङ्गल-कलश-द्वयमय-
कुम्भम् अदम्भेन भजत गज-वदनम्।
यद्-दान+++(→भक्त-दान-ध्वनिः)+++-तोय-तरलैस्
तिल-तुलनालम्बि रोलम्बैः॥ 12 ॥

शिवयोः सुधा-हरिद्रा-
दीप्तिमतोः सारभृज् जगत्-पित्रोः।
त्रिभुवन-विघ्नध्वंसी करि-
कल्पः कश्चिद् अरुणिमा जयति॥ 13 ॥

युगपत् स्वगण्ड-चुम्बन-
लोलौ पितरौ निरीक्ष्य हे+++(=शिवे/रणे)+++रम्बः।
तन्-मुख-मेलन-कुतुकी
स्वाननम् अपनीय परिहसन् पायात्॥ 14 ॥+++(5)+++

+++(स्वागता-छन्दः)+++
हस्त-पङ्कज-निविष्ट-कपित्थ-
व्याज-सञ्चरद्-अशेष-पुमर्थम्।
नौमि किञ्चिद् अवधूनित-शुण्डा-
दण्ड-कुण्डलित-मण्डित-गण्डम्॥ 15 ॥

अन्तराय-तिमिरोपशान्तये
शान्तपावनम् अचिन्त्य-वैभवम्।
तन् नरं वपुषि कुञ्जरं मुखे
मन्महे किमपि तुन्दिलं महः॥ 16 ॥

अशेष-विघ्न-प्रतिषेध-दक्ष-
मन्त्राक्षतानाम् इव दिङ्-मुखेषु।
विक्षेप-लीला कर-शीकराणां
करोतु वः प्रीतिमिभाननस्य॥ 17 ॥+++(5)+++

दन्ताग्र-निर्भिन्न-हिमाचलोर्वी-
रन्ध्रोत्थिताहीन्द्र-मणि-प्रभौघे।
नागाननः स्तम्भ-धिया कपोलौ
घर्षन् पितृभ्यां हसितः पुनातु॥ 18 ॥

दन्ताञ्चलेन धरणी-तलम् उन्नमय्य
पातालकेलिषु धृतादिवराहलीलम्।
2 उल्लाघनोत्फणफणाधरगीयमानक्रीडावदानमिभराजमुखं नमामः॥ 19 ॥

आनन्दमात्रमकरन्दमनन्तगन्धं योगीन्द्रसुस्थिरमिलिन्दमपास्तबन्धम्।
वेदान्तसूर्यकिरणैकविकासशीलं हेरम्बपादशरदम्बुजमानतोऽस्मि॥ 20 ॥
गण्डस्थलीगलदमन्दमदप्रवाहमाद्यद्द्विरेफमधुरस्वरदत्तकर्णः।
हर्षादिवालसनिमीलितनेत्रयुग्मो विघ्नच्छिदे भवतु भूतपतिर्गणेशः॥ 21 ॥
लक्ष्मीं तनोतु सुतरामितरानपेक्षमङ्घ्रिद्वयं निगमशाखिशिखाप्रवालम्।
हैरम्बमम्बुरुहडम्बरयौर्यनिघ्नं3 विघ्नाद्रिभेदशतधारधुरन्धरं1 नः॥ 22॥

पायाद्गजेन्द्रवदनः स इमां त्रिलोकीं यस्योद्गतेन गगने महता करेण।
मूलावलग्नसितदन्तबिसाङ्कुरेण नालायितं तपनबिम्बसरोरुहस्य॥ 23 ॥
अविरलमदधाराधौतकुम्भः शरण्यः फणिवरवृतगात्रः सिद्धसाध्यादिवन्द्यः।
त्रिभुवनजनविघ्नध्वान्तविध्वंसदक्षो वितरतु गजवक्त्रः सन्ततं मङ्गलं वः॥ 24 ॥
जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाद्बलिं बध्नता स्रष्टुं वारिभवोद्भवेन भुवनं शेषेण धर्तुं धराम्।
पार्वत्या महिषासुरप्रमथने सिद्धाधिपैः सिद्धये ध्यातः पञ्चशरेण विश्वजितये पायात्स नागाननः॥ 25 ॥
विघ्नध्वान्तनिवारणैकतरणिर्विघ्नाटवीहव्यवाड्विघ्नव्यालकुलाभिमानगरुडो4 विघ्नेभपञ्चाननः।
विघ्नोत्तङ्गगिरिप्रभेदनपविर्विघ्नाम्बुधौ वाडवो विघ्नाघौघघनप्रचण्डपवनो विघ्नेश्वरः पातु वः॥ 26 ॥

उच्चैर्ब्रह्माण्डखण्डद्वितयसहचरं5 कुम्भयुग्मं दधानः 6प्रेङ्खन्नागारिप7क्षप्रति8भटविकटश्रोत्रतालाभिरामः।
देवः शम्भोरपत्यं भुजगपतितनुस्पर्धिवर्धिष्णुहस्तस्त्रै9लोक्याश्चर्यमूर्तिः स जयति जगतामीश्वरः कुञ्जरास्यः॥ 27 ॥

दोर्द्योतद्दन्तखण्डः सकलसुरगणाडम्बरेषु प्रचण्डः सिन्दूराकीर्णगण्डः प्रकटितविलसच्चारुचान्द्रीयखण्डः।
गण्डस्थानन्तघण्डः10 स्मरहरतनयः कुण्डलीभूतशुण्डो विघ्नानां कालदण्डः स भवतु भवतां भूतये वक्रतुण्डः॥ 28 ॥

विघ्नेशो वः स पायाद्विहृतिषु जलधीन्पुष्कराग्रेण11 पीत्वा यस्मिन्नुद्धृत्य तोयं वमति तदखिलं दृश्यते व्योम्नि देवैः।
क्वाप्यम्भः क्वापि विष्णुः क्वचन कमलभूः क्वाप्यनन्तः12 क्वचिच्छ्रीः क्वाप्यौर्वः2 क्वापि शैलाः क्वचन मणिगणाः क्वापि नक्रादिसत्त्वाः॥ 29 ॥

विघ्नेशः सर्वविघ्नान्परिहरतु स यत्कर्णतालादुदञ्चद्वायुव्याधूतकण्ठस्थलयुगलगलद्भूरिसिन्दूरपूरैः।
आरुण्याद्वैतभावं गतवति जगति क्वापि नो भाति भानुर्नैवासौ शीतभानुः क्वचिदपि नितरां भासते वा कृशानुः॥ 30 ॥
क्रोडं तातस्य गच्छन्विशदबिसधिया शावकं शीतभानोराकर्षन्भालवैश्वानरनिशितशिखारोचिषा तप्यमानः। गङ्गाम्भः पातुमिच्छुर्भुजगपतिफणाफूत्कृतैर्दूयमानो मात्रा संबोध्य नीतो दुरितमपनयेद्बालवेषो गणेशः॥ 31 ॥
उच्चैरुत्तालगण्डस्थलबहुलगलद्दानपानप्रमत्तस्फी3ता1लिव्रातगीतिश्रुतिविधृतिकलोन्मीलितार्धाक्षिपक्ष्मा।
भक्तप्रत्यूहपृथ्वीरुह4निवहसमुन्मूलनोच्चैरुदञ्चच्छुण्डादण्डाग्र उग्रार्भक इभवदनो वः स पायादपायात्॥ 32 ॥

कल्याणं वो विधत्तां 5करटम6दधुनीलोलकल्लोलमालाखेलद्रोलम्बकोलाहलमुखरितदिक्चक्रवालान्तरालम्।
प्रत्नं7 वेतण्डरत्नं8 सततपरिचलत्कर्णतालप्ररोहद्वाताङ्कूराजिहीर्षा9दरविवृतफणाशृङ्ग10भूषाभुजंगम्॥ 33 ॥

यः सिन्धौ फेनराशिर्भुवि कुमुदवनं व्योम्नि नक्षत्रलक्ष्मीरब्धौ मुक्तासमूहस्तरुषु सुमनसो मानसे हंससङ्घः।
श्रीकण्ठे भूतिलेशः शिखरिषु मणयो दिक्षु नीहारपातः13 पाण्डुः शुण्डाग्रजन्मा जयति गणपतेः शीकराणां विलासः॥ 34 ॥

सानन्दं नन्दिहस्ताहतमु14रजरवाहूतकौमार15बर्हि16त्रासान्नासाग्ररन्ध्रं विशति फणिपतौ भोग17सङ्कोचभाजि।
गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे18 शूलपाणेर्वैनायक्यश्चिरं वो वदनविधुतयः[^19] पान्तु चीत्कारवत्यः॥ 35 ॥


  1. वज्रम्. ↩︎ ↩︎ ↩︎

  2. हर्षित. ↩︎ ↩︎

  3. अधीनम्. ↩︎ ↩︎

  4. अग्निः. ↩︎ ↩︎

  5. तुल्यम्. ↩︎ ↩︎

  6. आधुन्वन्. ↩︎ ↩︎

  7. गरुडः. ↩︎ ↩︎

  8. प्रतिस्पर्धि. ↩︎ ↩︎

  9. शुण्डादण्डः. ↩︎ ↩︎

  10. भ्रमरः. ↩︎ ↩︎

  11. शुण्डाग्रेण. ↩︎

  12. दन्ताग्रेण. ↩︎

  13. हिमम्. ↩︎

  14. मृदङ्गः. ↩︎

  15. मयूरः. ↩︎

  16. भयात्. ↩︎

  17. फणा. ↩︎

  18. नृत्ये. ↩︎