श्रीगणेशपञ्चरत्नस्तोत्रम्
मुदा-करात्त-मोदकं सदा-विमुक्ति-साधकं
कला-धराऽवतंसकं विलासि-लोक-रञ्जकम् ।
अनायकैकनायकं विनाशितेभ-दैत्यकं
नताऽशुभाऽऽशु-नाशकं नमामि तं विनायकम् ॥ १॥+++(5)+++
नतेतराति-भीकरं नवोदितार्क-भास्वरं
नमत्-सुरारि-निर्जरं+++(=सुरं)+++ नताधिकाऽऽपद्-उद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तम् आश्रये परात् परं निरन्तरम् ॥ २॥
समस्त-लोक-शङ्करं निरस्त-दैत्य-कुञ्जरं
दरेतरोदरं वरं वरेभ-वक्त्रम् अक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्-करं
मनस्करं नमस्-कृतां नमस्-करोमि भास्वरम् ॥ ३॥+++(5)+++
अकिञ्चनार्ति-मार्जनं चिरन्तनोक्ति-भाजनं
पुरारि-पूर्व-नन्दनं सुरारि-गर्व-चर्वणम् ।
प्रपञ्च-नाश-भीषणं धनञ्-जयादि-भूषणं
कपोल-दान-वारणं भजे पुराण-वारणम् ॥ ४॥
नितान्त-कान्त-दन्त-कान्तिम् अन्तकान्तकात्मजं
अचिन्त्य-रूपम् अन्तहीनम् अन्तराय-कृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तम् एव योगिनां
तम् एक-दन्तम् एव तं विचिन्तयामि सन्ततम् ॥ ५॥+++(5 प्रासः)+++
महा-गणेश-पञ्चरत्नम् आदरेण योऽन्वहं
प्रगायति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगताम् अदोषतां सुसाहितीं सुपुत्रतां
समाहितायुर् अष्टभूतिम् अभ्युपैति सोऽचिरात् ॥ ६॥
इति श्रीशङ्करभगवतः कृतौ श्रीगणेशपञ्चरत्नस्तोत्रं
सम्पूर्णम् ॥