श्रीकण्ठ-तनय श्रीश
श्रीकर श्रीदलार्चित।
श्रीविनायक सर्वेश
श्रियं वासय मे कुले ॥ १ ॥
गजानन गणाधीश
द्विज-राज-विभूषित ।
भजे त्वां सच्-चिद्-आनन्द
ब्रह्मणां ब्रह्मणस्पते ॥ २ ॥
नताधीशाय महते
दीनाटवि-कुठारिणे ।
घृणा-पालित-लोकाय
वनानां पतये नमः ॥ ३ ॥
धी-प्रदाय नमस् तुभ्यम्
ईप्सितार्थ-प्रदायिने ।
दीप्त-भूषण-भूषाय
दिशां च पतये नमः ॥ ४ ॥
पञ्च-ब्रह्म-स्वरूपाय
पञ्च-पातक-हारिणे ।
पञ्च-तत्त्वात्मने तुभ्यं
पशूनां पतये नमः ॥ ५॥
तडित्-कोटि-प्रतीकाश-
तनवे विश्व-साक्षिणे ।
तपस्वि-ध्यायिने तुभ्यं
सेनानीभ्यश् च वो नमः ॥ ६ ॥
एकाक्षर-स्वरूपाय
चैकदन्ताय वेधसे ।
नैकरूपाय महते
मुष्णतां पतये नमः ॥ ७ ॥
(ये भजन्त्य् अक्षरं त्वां ते
प्राप्नुवन्त्य् अक्षरात्मताम्।)
नगजावरपुत्राय
सुरराजार्चिताय च ।
सुगुणाय नमस् तुभ्यं
सुमृडीकाय मीढुषे+++(←मिह्+क्वसु)+++ ॥ ८ ॥
महापातक-सङ्घात-
महा-रण-भयापह ।
त्वदीय-कृपया देव
सर्वान् अवयजामहे ॥ ९ ॥
नवरत्न-मयीं मालां
नवाक्षर-समन्विताम् ।
भक्त्या पठन्ति ये तेषां
तुष्टो भव गणाधिप ॥ १० ॥
॥ इति श्रीगणेश-नव-रत्नमाला सम्पूर्णा ॥