मन्त्राक्षरावलिः

प्रस्तावः

तेजो-वर्धन-स्तोत्रम् अथवा मन्त्राक्षरावलि-स्तोत्रम्।
श्रीगणेशाय नमः ॥

श्रीदेव्युवाच
विना तपो विना ध्यानं विना होमं विना जपम् ।
अनायासेन विघ्नेश-प्रीणनं वद मे प्रभो ॥ १॥

ईश्वर उवाच ।
मन्त्राक्षरावलिस्तोत्रं सर्वसौभाग्यवर्धनम् ।
दुर्लभं दुष्टमनसां सुलभं शुद्धचेतसाम् ॥ २॥

महागणपतिप्रीति-प्रतिपादकमञ्जसा ।
कथयामि घनश्रोणि कर्णाभ्याम् अवतंसय ॥ ३॥

स्तोत्रम्

ओङ्कारवलयाकार-मुञ्चत्-कल्लोल-मालिनम् ।
ऐक्षवं चेतसा वीक्षे सिन्धु-सन्धुक्षित+++(=सन्तेजित)+++-स्वनम् ॥ ४॥

श्रीमतश् चास्य जलधेर् अन्तर् अभ्युदितं नुमः ।
मणिद्वीपं महाकायं महाकल्पं महोदयम् ॥ ५॥

ह्रीतिम् आदधता धाम्ना धाम्नाम् ईशे किशोरके ।
कल्पोद्यान-स्थितं वन्दे भास्वन्तं मणिमण्डपम् ॥ ६॥

क्लीबस्यापि स्मरोन्माद-कारि-शृङ्गार-शालिनि ।
तन्-मध्ये गणनाथस्य मणि-सिंहासनं भजे ॥ ७॥

ग्लौ+++(=चन्द्र)+++कलाभिर् इवाच्छाभिस् तीव्रादि-नवशक्तिभिः ।
जुष्टं लिपिमयं पद्मं धर्माद्याश्रयम् आश्रये ॥ ८॥

गम्भीरम् इव तत्राब्धिं वसन्तं त्र्यस्रमण्डले ।
उत्सङ्गगत-लक्ष्मीकम् उद्यत्-तिग्मांशु-पाटलम् ॥ ९॥

गदेक्षुकार्मुकरुजा चक्राम्बुजगुणोत्पलैः ।
व्रीह्यग्र-निज-दन्ताग्र-तुलसी-मातुलुङ्गकैः+++(=निम्बैकैः)+++ ॥ १०॥

णषष्ठवर्णवाच्यस्य दारिद्र्यस्य विभञ्जनैः ।
एतैर् एकादश-करान् अलङ्कुर्वाणम् उन्मदम् ॥ ११॥

परानन्द-मयं भक्त-प्रत्यूह-व्यूहनाशनम् ।
परमार्थप्रबोधाब्धिं पश्यामि गणनायकम् ॥ १२॥

तत्-पुरः प्रस्फुरद्-बिल्व-मूलपीठ-समाश्रयौ ।
रमारमेशौ विमृशाम्य् अशेषशुभदायकौ ॥ १३॥

येन दक्षिण-भागस्थ-न्यग्रोध-तलम् आस्थितम् ।
सकलं सायुधं वन्दे तं साम्बं परमेश्वरम् ॥ १४॥

वर-सम्भोग-रसिकौ पश्चिमे पिप्पलाश्रयौ ।
रमणीयतरौ वन्दे रति-पुष्प-शिलीमुखौ । १५॥

रममाणौ गणेशेनोत्तर-दिक्-फलिनी-तले ।
भू-भूधराव् उदाराभौ भजे भुवनपालकौ ॥ १६ ॥

वलमान-वपुर्-ज्योतिः-कडारित+++(=रक्तीकृत)+++-ककुप्+++(=दिक्)+++-तटीः।
हृदयादि-रङ्ग-देवीर् अङ्गरक्षाकृते भजे ॥ १७॥

रद-काण्ड-रुचि-ज्योत्स्ना-काश-गण्ड-स्रवन्-मदम् ।
ऋध्याश्लेष-कृतामोदम् आमोदं देवमाश्रये ॥ १८॥

दलत्-कपोल-विगलं मद-धारा-बलाहकम्+++(=मेघम्)+++ ।
समृद्धितडिदाश्लिष्टं प्रमोदं हृदि भावये ॥ १९॥

सकान्तिं कान्ति-लतिका-परिरब्ध-तनुं भजे ।
भुज-प्रकाण्ड-सच्छायं सुमुखं कल्पपादपम् ॥ २०॥

वन्दे तुन्दिलम् इन्धानं चन्द्र-कन्दल+++(=किसलय)+++-शीतलम् ।
दुर्मुखं मदनावत्या निर्मितालिङ्गिनं पुरा ॥ २१॥

जम्भ-वैरि+++(=इन्द्र)+++-कृताभ्यर्चौ जगद्-अभ्युदय-प्रदौ ।
अहं मद-द्रवाविघ्नौ हतये एनसां श्रये ॥ २२॥

नमः शृङ्गार-रुचिरौ नमत्-सर्व-सुरासुरौ ।
द्राविणी-विघ्न-कर्तारौ, द्रावयेतां दरिद्रताम् ॥ २३॥

मेदुरं मौक्तिकासारं वर्षन्तौ भक्तिशालिनाम् ।
वसुधारा-शङ्खनिधी वाक्य-पुष्पाञ्जलिना स्तुमः ॥ २४॥

वर्षन्तौ रत्नवर्षेण वलद्-बालातप-त्विषौ ।
वरदौ नमतां वन्दे वसुधा-पद्म-शेवधी ॥ २५॥

शमिताधि-महाव्याधीः सान्द्रानन्द-करम्बिताः।
ब्राह्मम्यादीः कलये शक्तीः शक्तीनाम् अभिवृद्धये ॥ २६॥

मामवन्तु महेन्द्राद्याः दिक्पालाः दर्पशालिनः ।
तं नुमः श्रीगणाधीशं सवाहायुधशक्तिकम् ॥ २७॥

नवीन-पल्लव-च्छाया-दायाद-वपुर्-उज्ज्वलम्।
मेदस्वि मद-निष्यन्द-स्रोतस्वि कट-कोटरम् ॥ २८ ॥

यजमान-तनुं याग-रूपिणं यज्ञ-पूरुषम् ।
यमं यमवताम् अर्च्य यत्न-भाजाम् अदुर्लभम् ॥ २९॥

स्वारस्य-परमानन्द-स्वरूपं स्वयम् उद्गतम् ।
स्वयं वेद्यं स्वयं शक्तं स्वयं कृत्य-त्रयाकरम् ॥ ३०॥

हार-केयूर-मुकुट-कटकाङ्गद-कुण्डलैः ।
अलङ्कृतं च विघ्नानां हर्तारं देवम् आश्रये ॥ ३१॥

उपसंहारः

मन्त्राक्षरावलि-स्तोत्रं कथितं तव सुन्दरि ।
समस्तम् ईप्सितं तेन सम्पादय शिवे शिवम् ॥ ३२॥

इति तेजोवर्धनस्तोत्रम् अथवा मन्त्राक्षरावलिस्तोत्रं सम्पूर्णम् ॥

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये।
वरवरद सर्वजनं मे वशमानय स्वाहा ।