श्रीगणेश्द्वादशनामस्तोत्रम्
श्रीगणेशाय नमः ॥
शुक्लाम्बरधरं विष्णुं
शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्
सर्वविघ्नोपशान्तयेः ॥ १॥
अभीप्सितार्थ-सिद्ध्यर्थं
पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस् तस्मै
गणाधिपतये नमः ॥ २॥
गणानाम् अधिपश् चण्डो
गजवक्त्रस् त्रिलोचनः ।
प्रसन्नो भव मे नित्यं
वरदातर् विनायक ॥ ३॥
१२ नामानि
सुमुखश् चैकदन्तश् च
कपिलो गजकर्णकः ।
लम्बोदरश् च विकटो
विघ्ननाशो विनायकः ॥ ४॥
धूम्रकेतुर् गणाध्यक्षो
भालचन्द्रो गजाननः ।
फलस्तुतिः
द्वादशैतानि नामानि
गणेशस्य तु यः पठेत् ॥ ५॥
विद्यार्थी लभते विद्यां
धनार्थि विपुलं धनम् ।
इष्टकामं तु कामार्थी
मोक्षार्थी मोक्षमक्षयम् ॥ ६॥
विद्यारम्भे विवाहे च
प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सङ्कटे चैव
विघ्नस्तस्य न जायते ॥ ७॥
इति मुद्गलपुराणोक्तं श्रीगणेशद्वादशनामस्तोत्रं सम्पूर्णम् ।