॥ सङ्कट-नाशन-गणेश-द्वादश-नाम-स्तोत्रम्॥
प्रणम्य शिरसा देवं
गौरी-पुत्रं विनायकम्।
भक्तावासं स्मरेन् नित्यम्
आयुः-कामार्थ-सिद्धये॥
प्रथमं वक्र-तुण्डं च
ह्य् एक-दन्तं दि्वतीयकम्।
तृतीयं कृष्ण-पिङ्गाक्षं
गज-वक्त्रं चतुर्थकम्॥
लम्बोदरं पञ्चमं च
षष्ठं विकटमेव च।
सप्तमं विघ्न-राजं च
धूम्रवर्णं तथाष्टमम्॥
नवमं भाल-चन्द्रं च
दशमं तु विनायकम्।
एकादशं गण-पतिं
द्वादशं तु गजाननम्॥
द्वादशैतानि नामानि
त्रिसन्ध्यं यः पठेन् नरः।
न च विघ्न-भयं तस्य
सर्व-सिद्धि-करः प्रभुः॥
विद्यार्थी लभते विद्यां
धनार्थी लभते धनम्।
पुत्रार्थी लभते पुत्रान्
मोक्षार्थी लभते गतिम्॥
जपेद् गण-पति-स्तोत्रं
षड्भिर् मासैः फलं लभेत्।
सव्ँवत्सरेण सिद्धिञ् च
लभते नात्र संशयः॥
अष्टभ्यो ब्राह्मणेभ्यश् च
लिखित्वा यः समर्पयेत्।
तस्य विद्या भवेत् सर्वा
गणेशस्य प्रसादतः॥
॥ इति श्रीनारद-पुराणे सङ्कष्ट-नाशनं नाम गणेश-द्वादश-नाम-स्तोत्रं सम्पूर्णम्॥