मुक्तकानि

कराग्रे-वसते लक्ष्मि!
करमध्ये सरस्वति!
करमूलेस्थिते गौरि!
प्रभाते करदर्शनम्।

शुभं करोति कल्याणम्
आरोग्यं धन-सम्पदः।
शत्रु-बुद्धि-विनाशाय
दीप-ज्योतिर् नमोऽस्तुते॥

अन्नपूर्णे सदापूर्णे
शंकर-प्राण-वल्लभे।
ज्ञान-वैराग्य-सिद्ध्यर्थं
भिक्षां देहि च पार्वति।।

उन्मीलन्-नेत्र-पत्रोज्ज्वलम् अलकलता-लोल-रोलम्ब-डिम्बं
पाणावादाय शोणाऽम्बु-रुहम् इव जवाद् आत्मनो मुण्डमेव।
ग्रीवानालोद्यद्-अस्राऽऽसव-रस-रसन–क्षीबम् अक्लीब-वृत्या
नृत्यारम्भोत्सुकायै भवतु भगवति च्छिन्न-मस्ते नमस्ते॥

ॐ‌ ऐं ह्रीं क्लीं चामुण्डायै विच्चे (वित् च ई=प्रज्ञा)