प्रातः स्मरामि ललितावदनारविन्दं
बिम्बाधरं पृथुल-मौक्तिक-शोभि-नासम् ।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं
मन्दस्मितं मृग-मदोज्ज्वल(तिलक)-भाल-देशम् ॥ १॥
प्रातर् भजामि ललिता-भुज-कल्प-वल्लीं
रत्नाङ्गुलीय-लसद्-अङ्गुलि-पल्लवाढ्याम् ।
माणिक्य-हेम-वलयाङ्गद-शोभमानां
(पर्वस्थ-तिर्यक्)पुण्ड्रेक्षु-चाप-कुसुमेषु-सृणीर्(=अङ्कुशान्) दधानाम् ॥ २॥
प्रातर् नमामि ललिता-चरणारविन्दं
भक्तेष्ट-दान-निरतं भव-सिन्धु-पोतम् ।
पद्मासनादि-सुर-नायक-पूजनीयं
पद्माङ्कुश-ध्वज-सुदर्शन-लाञ्छनाढ्यम् ॥ ३॥
प्रातः स्तुवे पर-शिवां ललितां भवानीं
त्रय्य्-अन्त-वेद्य-विभवां करुणानवद्याम् ।
विश्वस्य सृष्टि-विलय-स्थिति-हेतु-भूतां
विश्वेश्वरीं निगम-वाङ्–मनसातिदूराम्
(वाक् च मनश्च = वाङ्मनसम्। नमो नमो वाङ्मनसातिभूमये - इत्यत्र यथा ।) ॥ ४॥
प्रातर्वदामि ललिते तव पुण्य-नाम
कामेश्वरीति कमलेति महेश्वरीति ।
श्रीशाम्भवीति जगतां जननी परेति
वाग्-देवतेति वचसा त्रिपुरेश्वरीति ॥ ५॥
यः श्लोक-पञ्चकम् इदं ललिताम्बिकायाः
सौभाग्यदं सुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झटिति प्रसन्ना
विद्यां श्रियं विमल-सौख्यम् अनन्त-कीर्तिम् ॥ ६॥
॥ इति श्रीमच्छङ्करभगवतः कृतौ ललिता पञ्चकम् सम्पूर्णम् ॥