अपीतकुचाम्बास्तवः
॥ श्री अप्पय्यदीक्षितेन्द्रैः कृतः॥
आनन्द-सिन्धु-लहरीम् अमृतांशु-मौलेर्
आसेविनाम् अमृत-निर्मित-वर्तिम् अक्ष्णोः ।+++(४)+++
आनन्द-वल्लि-विततेर् अमृतार्द्र-गुच्छं
अम्ब स्मराम्य् अहम् अपीतकुचे वपुस् ते ॥ १॥
निर्निद्र-कोक-नद-कोमल-कान्तम् अम्ब+++(४)+++
नित्यं सुधा-निकर-वर्षि पदं त्वदीयम् ।
मूर्छाकर-ज्वर-रुजा मम तापितस्य
मूर्ध्नि क्षणं सकृद् अपीत-कुचे निधेहि ॥ २॥
शीतांशु-कोटि-सुषमा-शिशिरैः कटाक्षैः
अव्याज-भूत-करुणा-रस-पूर-पूर्णैः ।
कर्पूर-धूलिम् इव दिक्षु समाकिरद्भिः+++(४)+++
अम्ब क्षणं स्नपय माम् अरुणाद्रि-मान्ये ॥ ३॥
आविर् भव क्षणम् अपीत-कुचे पुरस्तात्
अम्ब ज्वरेण महता मम तापितस्य ।
येन त्वद्-अङ्घ्रि-रुचि-जाल-सुधाप्रवाहे
मग्नस् तदैव तनु-तापम् अमुं त्यजेयम् ॥ ४॥
नानाविधैर् नलिन-जात-लिपि-प्रकॢप्तैः
आनीत-मूर्छम् अधिकं क्षुभितैर् ज्वराद्यैः ।
आश्वासय क्षणम् अपीतकुचे कराग्र-
क्रीडा-कनत्-कनक-हल्लक+++(→पद्म)+++-सौरभेण ॥ ५॥
कण्ठे विषं विष-मुचो भुजगाः कपर्दे
पार्श्वे च भूत-पतयः प्रमथाश् च भीमाः ।
शोणाचलेशम् उपसृत्य भजेत को वा
न स्यात् तवाम्ब सविधे यदि सन्निधानम् ॥ ६ ॥+++(४)+++
शक्तिर् जगज्-जनन-पालन-भञ्जनेषु
भोगेषु दिव्य-महिषी तरुणेन्दु-मौलेः ।
सिद्धिः कर-प्रणयिनी तव सन्निधानं
यन् नासि तस्य तद् अपीतकुचे न जाने ॥ ७॥
त्वं साक्षिणी प्रलय-भैरव-ताण्डवानां
त्वं शेषिणी स-हरि-धातृ-चराचराणाम् ।
त्वं मोचिनी सकल-संसृति-जालकानां
त्वां ब्रह्म-संविदम् अपीतकुचे नमामि ॥ ८॥
॥ श्री अप्पय्यदीक्षितेन्द्रैः कृतः
अपीतकुचाम्बास्तवः संपूर्णः॥